SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ ७४ सागारधर्मः। एवं स्थलशुद्धिं विधायाधुना दर्शनिकस्वरूपनिरूपणार्थ श्लोकद्वयमाहपाक्षिकाचारसंस्कार-दृढीकृतविशुद्धदृक् । भवाङ्गभोगनिर्विण्णः परमेष्ठिपदैकधीः ॥ ७ ॥ निर्मूलयन्मलान्मूल-गुणेष्वग्रगुणोत्सुकः। न्याय्यां वृत्ति तनुस्थित्यै तन्वन्दशनिको मतः॥ ८ । युग्मं । टीका-मतः एवम्भूतनयादिष्टः सूरिभिः । एतेन नैगमनयादेशात्पाक्षिकस्यापि दर्शनिकत्वमनुज्ञातं भवति । ततो न 'श्रावकपदानि देवरकादश देशितानी' त्यनेन विरोधः, पाक्षिरस्य द्रव्यतो दर्शनिकत्वात् । कोऽसौ मतः दर्शनिकः । किंलक्षणः, पाक्षिकाचारस्य पूर्वाध्याये प्रपञ्चनोक्तस्य संस्कार उत्कर्षस्तेन दृढीकृता निश्चलत्वं नीता विशुद्धा निर्दोषा हक दर्शन येन स पाक्षिकाचारसंस्कारर्द्ध कृतविशुद्धहक्, तथा भवाङ्गभोगनिविण्णः भवाङ्गभोगाः संसारशरिरेष्टविषयाः, अथवा भवाङ्गं संसारकारणं यो भोगो गृद्धिपूवर्क का मन्यादिविषयसेवनं ततो निर्विष्णो विरक्तः प्रत्याख्यानावरमाख्यचारित्रमोहकर्मविपाकवशात् कामिन्यादिविषयान् भजन्नपि तत्राकृतसेवानिबन्ध इत्यर्थः, तथा परमेष्ठिपदैकधीः परमेष्ठिपदेषु अहंदादिपञ्चगुरुचरणेषु एका धीरन्तर्दृष्टिर्यस्य स तथोक्तः ! आपदाकुलितोऽपि दर्शनिकस्तन्निवृत्त्यर्थ शासनदेवतादीन् कदाचिदपि न भजते । पाक्षिकम्तु भजत्यपीत्येवमर्थमेक ग्रहणम्। तथा निर्मूलयन् मूलादपि निरस्यन् । कान्, मलान् अतिचारान् । केषु, मूलगुणेषु तथा अग्रगुणोत्सुकः अग्रगुणे व्रतिकपदे उत्सुकोऽनुष्ठातुमुत्कण्ठितः। तथा तन्वन्ननुबध्नन् । कां, वृत्तिं कृष्यादिवा” । किंविशिष्टां, न्याय्या - १ आदावेते स्फुटमिह गुणा निर्मला धारणीया: पापध्वंसि व्रतमपमलं कुर्तता श्रावकीयम् । फर्तुं शक्यं स्थिरमुरुभरं मन्दिरं गर्तपूरं न स्थेयोभिदृढतममृत निर्मितं नावजालैः ॥: २ कृषि वणिज्यां गोरक्ष्यमुपायेंगुर्णिनं नृपम् । लोकद्वयाविरुद्धां च धनार्थी संश्रयेत् क्रियाम् ।।
SR No.022317
Book TitleSagar Dharm
Original Sutra AuthorN/A
AuthorAshadhar Pandit
PublisherJain Sahitya Prasarak Karyalay
Publication Year1928
Total Pages260
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy