SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ अथ प्रशस्तिः । श्रीमानस्ति सपादलक्षविषयः शाकंभरीभूषणस्तत्र श्रीरतिधाम मण्डलकरं नामास्ति दुर्ग महत् । श्रीरत्न्यामुदपादि तत्र विमलव्याघ्रेरवालान्वयाच्छ्रीसलक्षणतो जिनेन्द्रसमय श्रद्धालु शाधरः || १ ॥ श्रीमान त्रिवर्गसंपत्तियुक्तः । शाकंभरी लवणाकरविशेषः । श्रीरतिधाम लक्ष्मीक्रीडागृहं श्रीरत्न्यां रत्नीति कविमातुः संज्ञा । उदपादि उत्पन्नः ॥ १ ॥ सरस्वत्यामिवात्मानं सरस्वत्यामजीजनत् ॥ यः पुत्रं छाहडं गुण्यं रञ्जितार्जुनभूपतिम् ॥ २ ॥ व्याघ्रैरवालवरवंशसरोजहंसः काव्यामृतौघरसपानसुतृप्तगात्रः । सल्लक्षणस्य तनयो नयविश्वचक्षुराशाधरो विजयतां कलिकालिदासः ३ स्पष्टं । इत्युदयसेनमुनिना कविसुहृदा योभिनन्दितः प्रीत्या । प्रज्ञापुञ्जोसीति च योभिमतो मदनकीर्तियतिपतिना ४ स्पष्टं । म्लेच्छेशेन सपादलक्षविषये व्याप्ते सुवृत्तक्षतित्रासाद्विन्ध्यनरेन्द्रदोः परिमलस्फूर्जत्रिवर्गौजसि । प्राप्तो मालवमण्डले बहुपरीवारः पुरीमावसन् यो धारामपठज्जिनप्रमितिवाकशास्त्रे महावीरतः ॥ ५ ॥ म्लेच्छेशेन साहिवुदीनतुरुष्कराजेन । सुवृत्तक्षतिः सदाचारनाशः | दो:परिमलः परिमलो लक्षणावृत्त्या बलं बाहुबलातिशय इत्यर्थः । ओज उत्साहोsन्तः सारो बा । जिनप्रमितिवाकशास्त्रे जैनेंद्रप्रमाणशास्त्र जैनेंद्रव्याकरणं च । महावीरतः वादिराजपण्डितश्री मद्धरसेनशिप्यात्पण्डितमहावीरात् ॥ ५॥ आशारत्वं मयि विद्धि सिद्धं निसर्गसौदर्यमजर्यमार्यं । सरस्वतीपुत्रतया यदेतदर्थे परं वाच्यमयं प्रपञ्चः ॥ ६ ॥
SR No.022317
Book TitleSagar Dharm
Original Sutra AuthorN/A
AuthorAshadhar Pandit
PublisherJain Sahitya Prasarak Karyalay
Publication Year1928
Total Pages260
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy