SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ - द्वितीयोध्यायः । प्रतीतजैनत्वगुणेऽनुरज्यन्निाजमासंसृति तद्गुणानाम् ।। धुरि स्फुरन्नभ्युदयैरप्तस्कृप्तस्त्रिलाकीतिलकत्वमेति ॥ ५५ ॥ टीका-एति गच्छति । कोऽसौ, गृही। किं कुर्वन्, अनुरज्यन् स्वयमेवानुरागं कुर्वन् । कथं, निर्व्याजं निश्च्छद्म । क्व, प्रतीतः प्रसिद्धो जैनत्वगुणो यस्य तस्मिन् प्रतीतजैनत्वगुणे । कि-, मेति त्रिलोकीतिलकत्वं परमपदं । किंभूतो भूत्वा, तृप्तः वितृष्णीभूत इत्यर्थः । कैः, अभ्युदयैराज्ञैश्चर्यादिभिः । किंविशिष्टः सन्, अहप्तोऽकृतमदः सम्यक्त्वसहचारिपुप्योदययोगात् । किं कुर्वन् , स्फुरन् दीव्यन् । क्व, धुरि अग्रे। केषां सद्गुणानां प्रतीतजैनत्वगुणानां । कथम् आसंसृति संसारं यावत् , भवे भवे जैनानामग्रणीभवन्नित्यर्थः ॥ ५५ ॥ - गृहस्थाचार्याय तदभावे मध्यमपात्राय वा कन्यादिदान पाक्षिकश्रावकस्य कर्तव्यतयोपदिशति निस्तारकोत्तमायाथ मध्यमाय सधर्मणे । कन्याभूहेमहस्त्यश्व-रथरत्नादि निर्वपेत् ॥ ५६ ॥ टीका-निवपत् दद्यात् गृही। किं तत्, कन्या कुमारी, भूर्भूमिः, हेम काञ्चनं, हस्ती गजः, अश्वो वाजी, स्थ: स्यन्दनः, रत्नं वज्रादि, आदिशब्देन वस्त्रगृहनगराधेवंजातीयकमन्यदपि त्रिवर्गसाधनाश्रयं वितरेत् । कस्मै, सधर्मणे समान आत्मना समो धर्मः क्रियामन्त्रव्रतादिलक्षणो गुणो यस्य तस्मै । किंविशिष्टाय, निस्तारकोत्तमाय संसारार्णवोत्तारकाणां गृहिणां मध्ये प्रधानाय, न केवलं तस्म तदलाभे च मध्यमाय अनुत्तमाधमाय । अथशब्दोऽत्र पक्षान्तरसूचनेऽधिकारे वा । अत्र जघन्यविषयां समदत्तिं व्याख्याय मध्यमविषयाऽ सावधिक्रियते इत्यर्थः । यत्यपेक्षया गृहस्थस्य गुणाधिकस्यापि मध्यमपात्रत्वात् ॥ ५६॥ सधर्मभ्यः कन्या दिदाने हेतुमाह आधानादिक्रियामन्त्र-व्रताद्यच्छदवाञ्छया। प्रदेयानि सधर्मभ्यः कन्यादीनि यथोचितम् ॥ ५७॥ टीका-प्रदेयानि प्रकृष्टं कृत्वा दातव्या नि गृहिणा। कानि, कन्यादीनि।
SR No.022317
Book TitleSagar Dharm
Original Sutra AuthorN/A
AuthorAshadhar Pandit
PublisherJain Sahitya Prasarak Karyalay
Publication Year1928
Total Pages260
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy