________________
सागारधर्मः। टीका-द्योत्यं प्रकाश्य प्रभाव्यं । कैः, सत्पात्रैःज्ञानतपोऽधिकैः । किविशिष्टै, जैनैः शिवादिभक्तिग्रहाविष्टैः । क्व, तत्रापि तपोज्ञानरहितेऽपि जने । किंवत्, खद्योतवत् खद्योतैरिव । कस्मिन् , स्वौ रविसन्निधाने ज्योतिरिङ्गणा यथा निष्प्रभा भवन्ति तथा स्फुरजैनत्वगुणपुंसः समीपे मिथ्यादृष्टिधार्मिका इत्यर्थः । यत्र किं, यत्र स्फुरति प्रतपति । कौऽसौ, जैनत्वगुणः जिन एव देवो मे भवार्णवोत्तारकत्वादित्यभिनिवेशधर्मः। किंविशिष्टोऽपि, ज्ञानतपोरहितः, किं पुनस्तत्सहित इत्यपिशब्दार्थः । किंविशिष्टः, सतां मतः साधूनामिष्टः॥५२॥ श्रेयोऽर्थिनां जैनानुग्रहानुभावमाह
वरमेकोऽप्युपकृतो जैनो नान्ये सहस्रशः।।
दलादिसिद्धान् कोऽन्वेति रससिद्धे प्रसेदुषि ॥ ५३ ॥ टीका-वरं भवतु । कोऽसौ, जैनः । किंविशिष्टः, उपकृतोऽनुगृहीतः । किंविशिष्टोऽपि, एकोऽपि । नवरं। के-ऽन्ये अजैनाः। किंविशिष्टाः,उपकृताः कियन्तः, सहस्रशः सहस्रसंख्याः । अत्र दृष्टान्तमाह-को, न कश्चित् । अन्वेति अनुवर्तते । कान, दलादिसिद्धान्, दलं बीजरहितकृत्रिमसुवर्णादिद्रव्यं आदिशब्दाद्वर्णोत्कर्षादि तत्र तेन वा सिद्धान् प्रसिद्धान् । क सति, रससिद्ध पारदेन दारियव्याधिजरादिनिराकरणशक्त्या प्रतीते पुंसि। किंबिशिष्टे, प्रसेदुषि प्रसन्ने अनुग्रहोद्यते ॥ ५३ ॥ नामादिनिक्षेपविभक्तानां चतुर्णा जैनानां पात्रत्वं यथोत्तरं विशिनष्टि
नामतः स्थापनातोऽपि जैनः पात्रायते तराम् ।
स लभ्यो द्रव्यतो धन्यैर्भावतस्तु महात्मभिः ॥ ५४ ॥ टीकाः-पात्रायते तरां अजैनपात्रेभ्योऽतिशयेन संयुज्यमाननिर्वाणकारणगुणलक्षणपात्रवदाचरति, सम्यक्त्वसहचारिपुण्यास्रवकारणत्वात् ।। कोऽसौ, जैनः । केन, नामतः सञ्ज्ञामात्रेण, न परं नाम्ना स्थापनातोऽपि सोऽयं जैन इति कल्पनामात्रेणापि। लभ्यः प्राप्यः । कोऽसौ, स जैनः। केन, द्रव्यतो द्रव्येण आगामिजैनत्वगुणयोग्यत्वेन विशिष्टः कैः, धन्यैः पुण्यवद्भिः। स एव तु भावतो भावेन जैनत्वगुणयोगेन लभ्यः । कैः, महात्मभिः महाभागैः ॥५४॥
भावजैनं प्रति निरुपाधिप्रीतेमतोऽभ्युदयनिःश्रेयससम्पदं फलमाह