SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ ५२ सागारधर्मः। केभ्यः, सधर्मभ्यः साधर्मिकेभ्यः । कथ, यथोचितं यो यो यद्दानस्य योग्यस्तस्मै तस्मै तदातव्यमित्यर्थः । कया, आधानादीत्यादि--आधानं गर्भाधानविधानमादिर्यासां प्रीतिसुप्रीत्यादीनामाप्तोक्तानां क्रियाणां ता आधानादयस्ताश्च ताः क्रियाश्च कर्मागि गृहस्थानामवश्यकार्याणि, मन्त्राः प्रत्यासत्तेराधानादिक्रियासम्बन्धिन एवाप्तोक्ताः अपराजितमन्त्री वा, व्रत. नि मद्यविरत्यादीनि आदिशब्दादेवपूजापात्रदाना दिधर्म कमा णि तेषानच्छेदः सातत्येन प्रवृत्तिस्तत्र वाञ्छा आकांक्षा तया ॥ ५७ ॥ सम्यकन्यादानविधि तत्फलं चाह निदोषां सुनिमित्तसूचितशिवां कन्यां वराहर्गुणः स्फूजन्तं परिणाय्य धर्यविधिना यः सत्करोत्यञ्जसा । दम्पत्योः स तयोस्त्रिवर्गवटनात्वर्गिकेवग्रणी भूत्वा सत्समयास्तमोहमहिमा कार्ये परेऽन्यूर्जति ॥ ५८ ॥ टीका यो गृही। अञ्जसा श्रद्धापरत्वेन । साधर्मिकं सत्करोति सम्मानयति यथोचितवस्त्रादिदानेनोपचरति । किं कृत्वा, परिणाय्य युक्तितो वरणविधान मनिदेवद्विजसाक्षिकं च पाणिग्रहणं विवाहस्तं कारयित्वा । केन, धर्म्यविधिना धा धर्मादनपेता ब्राह्मप्राजापत्यार्षदेवाश्चत्वारो विवाहास्तेषां यथार्ह प्रयो१ धर्म्यविवाहविधिराः यथा ततोऽस्य गुर्वनुज्ञाना-दिष्टा वैवाहिकी क्रिया । ववाहिके कुले कन्या-मुचितां परिणष्यतः। सिद्धार्चनविधि सम्य-निर्वयं द्विजसत्तमाः । कृतानित्रयसम्पूजा: कुयुस्तत्साक्षिकां क्रियाम् ।। पुण्याश्रमे क्वचित्सिद्ध-प्रतिमाभिमुखं तयोः। दम्पत्योः परया भूत्या कार्यः पाणिग्रहोत्सवः ।। वेद्यां प्रणीतमग्नीनां त्रयं द्वयमथैककम् । तत: प्रदक्षिणीकृत्य प्रसज्य विनिवेशनम् ।। पाणिग्रहणदोक्षायां नियुक्तं तद्वधूवरम् । आसप्ताहं चरब्रह्म-व्रतं देवाग्निसाक्षिकम् ॥ (शेषस्त्वपृष्ठे )
SR No.022317
Book TitleSagar Dharm
Original Sutra AuthorN/A
AuthorAshadhar Pandit
PublisherJain Sahitya Prasarak Karyalay
Publication Year1928
Total Pages260
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy