SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ अष्टमोध्यायः । २५१ " टीका - शिवी स्यादशिवः शिवः सम्पद्यते परममुक्तो भवेदित्यर्थः । कोसौ. शिवाशाधरः मोक्षायाभिलाषभृन्मुमुक्षुरित्यर्थः । किं कृत्वा त्यक्वा । कान् प्राणान् । किंविशिष्टः सन् सदित्यादि । सत्या यथागुणस्थानं सम्भवत्या रत्नत्रयभावनया निश्चयरत्नत्रयाभ्यासेन परिणतो योगी चरमसमयवर्ती समुच्छिन्न क्रियाप्रतिपातिशुक्लध्यानारूढः । किं कुर्वन्, कल्यन् धारयन् ! किं तत्, लिङ्गं निरूपतां । किं तदेव पूर्वगृहीतमौत्सर्गिकमेव । किमाख्योसौ, श्रमणः श्रमण इति व्यपदेशभाक् । कथंभृतो भूत्वा, अलंकर्मी निर्यापकन्यस्तात्मा कर्मणे प्रकृतत्वात्संसारार्णव निस्तारणलक्षणाय अलं समर्थोलंकमणः निर्यापको व्यवहारेण सुस्थिताचार्यो निश्चयेन तु शुद्धस्वात्मानुभूतिपरिणामोन्मुख आत्मैव तस्यैव दुःखाद् दुःखहेतोर्वात्मनो निष्कासकत्वोपपत्तेः 1 यदाह - स्वस्मिन्सदभिलाषित्वादभीष्टज्ञायकत्वतः । स्वयं हितप्रयोक्तृत्वादात्मैव गुरुरात्मनः ॥ १ ॥ अलंकमणश्चासौ निर्यापकश्च अलंकर्मी निर्या पकस्तत्र न्यस्तो निक्षिप्तः समर्पित आत्मा येन स तथोक्तः । किं कृत्वा संलिख्य सम्यक् कृशीकृत्य । किं तंत्, वपुः शरीरं । किंवत्, कषायवत् कषायान् शरीरं च बाह्याभ्यंतरतपोभिम्तनुकृत्य । कथं, इत्येवमुक्तप्रकारेण । एतदुत्कृष्टाराधनापक्षे व्याख्यानं ॥ मध्यमाराधनापक्षे संप्रति व्याख्यायते श्रमणोनगारः शिवाशाधरो मुमुक्षुः सन् तदेव लिङ्गमा चेलक्यादिचतुर्विकल्पं क्लयन् सत्यां समीचीनायां संबरसहभाविपापकर्मनिर्जरासमर्थायां रत्नत्रयभावनायां सम्यग्दर्श नादिरत्नत्रयाभ्यासे परिणत उपयुक्तः सन् प्राणांस्त्यक्वा शिवी स्यात् शिवमन्द्रादिपदप्राप्तिलक्षणो भ्युदयः । शिवमस्यास्तीति शिवी अर्श आदेरित्यनेन मत्त्वर्थीयः अः प्रत्ययः । शेषं पूर्ववद् व्याख्येयं । ऐदयुगीनापेक्षया जघन्याराधनापक्षे तदेवेत्थं व्याख्येयं श्रमणः प्राख्याख्यातार्थ विशेषणविशिष्टः पंचनमस्क्रियायां पंचनमस्कारे स्मृतिः चिंता उच्चारणं यत्र तत्पंचनम स्त्रियास्मृति यथा भवत्येवं प्राणांस्त्यक्त्वा शिवी स्यात् । क, अष्टजन्मांतरे अष्टानां भवान " 1.
SR No.022317
Book TitleSagar Dharm
Original Sutra AuthorN/A
AuthorAshadhar Pandit
PublisherJain Sahitya Prasarak Karyalay
Publication Year1928
Total Pages260
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy