________________
सागारधर्मः
१७०
स्नानशास्त्रे च दृष्टव्यम् ॥ २२ ॥ यज्ञान्तरोपदेशार्थमाह
सम्यग्गुरूपदेशेन सिद्धचक्रादि चार्चयेत् ।
श्रुतं च गुरुपादांच को हि श्रेयसि तृप्यति ॥ २३ ॥ टीका - अर्चयेच्चासौ । किं तत्, सिद्धचक्रादि सिद्धचक्रं लघु बृहद्वा आदिशब्देन पार्श्वनाथयन्त्रं गणधरवलयं सारस्वतयन्त्रमन्यद्वा सम्यक्त्वसंयमा-विरोधेन दृष्टादृष्टफलप्रसाधकत्वेन जिनशासने प्रसिद्धं । एतच्च रहस्यभावात् पदस्थध्यान प्ररूपणावसरे प्रपंचयिष्यते । केन तत्पूजयेत, सम्यम्गुरूपदेशेन अन्यथा नैष्फल्यप्रत्यवायबाहुल्यसम्भवात् । तथा श्रुतमर्चयेत् । गुरोश्च दीक्षकाचार्यस्य पादान् तृतीयोऽपि चशब्दस्त्रयाणामपि पूज्यानां तुल्यकक्षतासूचनार्थे । कुत एतद्यज्ञान्तरप्रदर्शनं ? जिनयज्ञेनैव सर्वमनोरथपरिपूर्तिसंसिद्धेरिति शङ्कायामिदमाह - को हीत्यादि । हि यस्मात् कस्तृप्यति तृप्तमात्मानं मन्यते । कस्मिन्, श्रेयस अभ्युदयनिःश्रेयससाधनार्थे कर्मणि ॥ २३ ॥ ततः पात्राणि सन्तर्प्य शक्तिभक्त्यनुसारतः ।
सर्वांश्चाप्याश्रितान् काले सात्म्यं भुञ्जीत मात्रया ॥ २४ ॥ टीका - ततो जिनयज्ञादिनिर्वर्तनानन्तरं पात्रसन्तर्पणादि कृत्वा भुञ्जीत अभयादसौ । किं तत्, सात्म्यं वस्तु । सात्म्यलक्षणं यथा " पानाहारादयो यस्य विरुद्धाः प्रकृतेरपि । सुखित्वा वकल्पते तत्साम्यमिति कथ्यते । " कया भुञ्जीत, मात्रा सुखजरणलक्षणया यदाह - " सायं प्रातर्वा वन्हिमनवसादयन् भुञ्जीत”इति ! अपि च–“गुरूणामर्धसौहित्यं लघूनां ना तितृप्तता । मात्रप्रमाणं निर्दिष्टं सुखं तावद्विजीर्यति ।।१ क मात्रया सात्म्यं भुञ्जीत ? काले बुभुक्षाकाले । भोजनकालः तद्विस्तरशास्त्रं त्विदं-- "प्रसृष्टे विण्मूत्रे हृदि सुविमले दोषे स्वपथगे, विशुद्धे चोद्वारे क्षुदुपगमने वातेऽनुसरति । तथाऽग्नावुद्रिक्ते विशदकरणे देहे च सुलधौ, प्रयुञ्जीताहारं विधिनियमितं कालः स हि मतः । "