SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ द्वितीयोध्यायः । भोगित्वाद्यन्तशान्तिप्रभुपदमुदयं संयतेऽनप्रदानाच्छ्रीषेणो रुनिषेधाद्धनपतितनया प्राप सर्वोषधर्द्धिम् । प्राक्तजन्मर्षिवासावनशुभकरणात्सूकरः स्वर्गमग्य कौण्डेशः पुस्तका_वितरणविधिनाऽऽप्यागमाम्भोधिपारम् ॥७०॥ टीका--प्राप लब्धवान् । कोऽसौ, श्रीषेणो नाम राजा । कम, उदयमभ्युदयं । किंविशिष्टं, भोगित्वाद्यन्तशान्तिप्रभुपदं भोगित्वमुत्तमभोगभूमिजत्वमादावन्ते च शान्तिमाः शान्तिनाथतीर्थङ्करस्य पदं यस्य तं । कस्माद,न्नप्रदानात् विधिवदाहारवितरणात् । क्व, संयते संयमभाजि आदित्यगत्याख्यारिञ्जयसंज्ञचारणर्षियुगले । बीजत्वमात्रविवक्षाऽत्र । तथाविधाभ्युदयस्योत्तरपुण्यविशेषोदयसम्पाद्यत्वात् । तथा प्राप। काऽसौ, धनपतितनया वृषभसेनाभिधाना पूर्वभवे राज्ञो देवकुलस्य सम्मार्जिका । कां प्राप, सर्वोषधर्द्धि सर्वेषां ज्वरातिसारादिव्याधीनामौषधं चिकित्सितं तत्त्य ऋद्धिरव्याहतसिद्धिस्तां । कस्मात् , रुग्निषेत्रात् व्याधिप्रतिकारादौषधादेः दोषनिषेधात् । क, संयते तपोधने । तथा प्राय। कोऽसौ, शूकरो वराहः कं, स्वर्ग। किंविशिष्टं, अग्न्य सौधर्मे महर्द्धिकदेवत्वमित्यर्थः । कस्मात् , प्रागित्यादि-प्राक्च पूर्व तच्च तात्कालिकं च प्राक्त,प्राक्त च ते जन्मनी च प्राक्तजन्मनी तयोः ऋषेर्वासावने निवासरक्षणे तयोः शुभकरणः शुभाभिसन्धिपरिणामस्तस्मात् । पूर्वभवे मुनेसवासदानाभिप्रायेण नद्भवे चरक्षणाभिप्रायेणेत्यर्थः। तथा कौण्डेशोऽपि गोविन्दाख्यगोपालचरो ग्रामकूटपुत्रः सन् कौण्डेशो नाम मुनिश्च प्राप । कम् , आगमाम्भोधिपारं द्वादशाङ्गश्रुतसारपर्यन्तं । केन पुस्तकस्य अर्चायाः पूजायाः वितरणस्य च दानस्य विधिना करणेन ॥ ७० ॥ जिनधमानुबन्धार्थमसतां मुनीनामुत्पादने सतां च गुणातिशयसम्पादने प्रयत्नविधानार्थमाह जिनधर्म जगद्वन्धु-मनुबध्दुमपत्यवत् । .यतीजनयितुं यस्येत्तथोत्कर्षयितुं गुणैः ॥ ७१ ॥
SR No.022317
Book TitleSagar Dharm
Original Sutra AuthorN/A
AuthorAshadhar Pandit
PublisherJain Sahitya Prasarak Karyalay
Publication Year1928
Total Pages260
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy