SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ पंचमोध्यायः । तथापि ग्रहणादौ तस्यापि दानमविधेयमेव सम्यक्त्वोपघातस्य तेनाप्यवश्य परिहार्यत्वात् ॥ ५३ ॥ तद्वता तिचारपरिहारार्थमाह १५७ ॥ 4 त्याज्याः सचित्तीनक्षेपोऽतिथिदाने तदावृतिः । सकालातिक्रमपरव्यपदेशच मत्सरः || ४ || टीका - त्याज्याः तद्व्रतिना वर्जनीयाः । के ते सचित्त निक्षेपस्तदावृतिः कालातिक्रमपरव्यपदेशाभ्यां सह मत्तरश्चेत्यमी पञ्चातिचाराः । क्क, अतिथि - दाने अतिथिसंविभागवते । तत्र सचित्तनिक्षेपः - सचित्त सजीवे पृथिवीजलकुम्भोप (चुल्लि ) भुवल्लिधान्यादौ निक्षेपो देयस्य वस्तुनः स्थापनं ! तच्चादानबुद्ध्या तत्र निक्षेप्यमाणमतिचारः । तुच्छबुद्धिः खलु सचितनिक्षिप्तं किल संयता न गृह्णन्तीत्यभिप्रायेण देयं सचित्ते निक्षिपतीति तच्च । संयतध्वगृह्णत्सु लाभोऽयं ममेति च मन्यते इति प्रथमः ॥ १ ॥ तदावृतिः तेन सचित्तेन पत्रपुष्पादिना तथाविधयैव बुद्ध्या आवृतिराच्छादनं द्वितीयः ॥ अथवा सचित्तनिक्षिप्तं तत्पिहितं च संयतस्थाजानतः प्रयुज्यमानमतीचारः ॥ २ ॥ कालातिक्रमः साधूनामुचितस्य भिक्षासमयस्य लङ्घनं । स च यतीनयोग्ये काले भोजयतोऽनगारवेलाया वा प्रागेव पश्चाद्वा भुञ्जानस्य च तृतीयः स्यात् || ३ || परव्यपदेशः परस्यान्यस्य सम्बन्धीदं गुडखण्डादीति विशेषेणापदेशो व्याजाद्यदि वाऽयमत्र दाता दीयमानोऽप्ययमस्येति समर्पण चतुर्थः ॥ ४ ॥ मत्सरः कोपः । यथा मार्गितः सन् कुप्यति, सदपि वा मार्गितं न ददाति प्रयच्छतोऽप्यादराभावो वा अन्यदातृगुणासहिष्णुत्वं वा मत्सरः । यथाऽनेन तावच्छ्रावण मार्गितेन दत्तं किमहमस्मादपि हीनः इति परोन्नतिवैमनस्याददाति । एतच्च मत्सरशब्दस्यानेकार्थत्वात्सङ्गच्छतं ॥ तदुक्तं-मत्सरः परसम्पत्त्यक्षमायां तद्वति क्रुधि ॥ एते पूर्वे चाज्ञानप्रमादानामतिचाराः । अन्यथा तु भङ्गा एवेति विभावनीयम् ॥ ५४ ॥ 7
SR No.022317
Book TitleSagar Dharm
Original Sutra AuthorN/A
AuthorAshadhar Pandit
PublisherJain Sahitya Prasarak Karyalay
Publication Year1928
Total Pages260
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy