________________
१५६
सागारधर्मः।
तत्, माध्यान्हिकं मध्याहे भवं कर्म स्नानदेवार्चनादिकं ॥ ५१ ॥
द्वीपेष्वर्धतृतीयेषु पात्रेभ्यो वितरन्ति ये ॥
ते धन्या इति च ध्यायेदतिथ्यन्वेषणोद्यतः ॥ ५२ ॥ टीका-ध्यायेच्च चिन्तयेत् । कोऽसौ, अतिथ्यन्वेषणोद्यतः श्रावकः । किं. इति एतत् । वर्तन्ते । के, ते गृहस्थाः । किविशिष्टाः, धन्याः पुण्यवन्तः । ये किं, ये वितरन्ति यथाविधि प्रयच्छन्ति । केभ्यः, पात्रेभ्यः । केषु, द्वीपेषु किंविशिष्टेषु, अर्धतृतीयेषु जम्बूद्वीपेधातकीखण्डे पुष्करवरद्वीपस्य चार्धे अर्धतृतीयो येषां ते अर्धतृतीया इति विग्रहः ॥ ५२ ॥
भूम्यादीनां देयत्वं ग्रहणादौ च दानं नैष्ठिकस्य हिंसासम्यक्त्वोपघातहतुत्वप्रकाशनेन निषेद्धमाह
हिंसार्थत्त्वान्न भूगेहलोहगोश्वादि नैष्ठिकः।
दद्यान्न ग्रहसङ्क्रान्तिश्राद्धादौ च सुदृग्द्रुहि ॥ ५३ ॥ टीका-न दद्यान्न प्रयच्छेत् । कोऽसौ, नैष्टिको दर्शनिकादिगृही। किं तत्. भूगेहलोहगोश्वादि भूश्च भूमिर्गेहे व गृहं लोहं च शस्त्रोपादानं गौश्चानड्वाही अश्वश्च घोटको भूगेहलोहगोश्वास्ते आदयो यस्य कन्याहेमतिलदध्यन्नादेर्बादैः पुण्यार्थतया देयत्वेन समर्थितस्य द्रव्यस्य तद् भूगेहादिद्रव्यं नैष्ठिको न दद्यात् । कस्मात्, हिंसार्थत्वात् प्राणिवधनिमित्तत्त्वात् । एतस्योत्तरस्य च समर्थन ज्ञानदीपिकायां विस्तरतोऽभिहित प्रतिपत्तव्यं । न च दद्यान्नैष्ठिकः स्वद्रव्यं । कस्मिन् , ग्रहसंक्रान्तिश्राद्धादौ ग्रहःसूर्याचन्द्रमसोरुपरागः, संक्रान्तिः सूर्यस्य राश्यन्तरसंक्रमण, श्राद्धं मृतपित्राद्युद्देशेन दानं, ग्रहश्च संक्रान्तिश्च श्राद्धं च तान्यादयो यस्य वारव्यतिपातादेयैिः पुण्यार्थत्वेन समर्थितस्य पर्वणस्तग्रहादि पर्व तस्मिन् । तस्य पुण्यार्थदानविषयत्वकल्पनायांदोषसमर्थनार्थमाह-किंविशिष्ट तत्र, सुदृग्गुहि सम्यक्त्वघातके । यद्यपि च नैष्ठिक इति वचनात्याक्षिकस्यानुत्पन्नसम्यक्त्वावस्थतया भुम्यादिदानं न प्रतिषिध्यते