SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ ११८ सागारधर्मः। स्वस्त्रीमात्रेऽपि सन्तुष्टो नेच्छेद्योऽन्याः स्त्रियः सदा । सोऽप्यद्भुतप्रभावः स्यात् किं वयं वर्णिनः पुनः ॥ ५६ ।। टीका-यो नेच्छेत् नाभिलषेत् । काः, स्त्रियः नारीः। किंविशिष्टाः, अन्या: स्वस्त्रीतो व्यक्तिरिक्ताः । किंविशिष्टः सन्, सन्तुष्टः सन्तोषं गतः । केन, स्वस्त्रीमात्रेण निजनाथैव । स्यात् । कोऽसौ, सोऽपि स्वदारसन्तुष्टोऽपि । किंविशिष्टः, अद्भुतप्रभावो लोकविस्मयनीयमाहात्म्यः । किं वर्ण्य । किं माहात्म्यं स्तुत्य । कस्य, वर्णिनः सर्वस्त्री निवृत्तस्य । कथं, पुनः प्राग्वर्णितप्रायत्वा दित्यर्थः ॥ ५६ ॥ इदानीं स्वभर्तृमात्रसेवनव्रतायाः स्त्रिया बहुमान्यतां दृष्टान्तेन स्पष्टयति रूपैश्वर्यकलावर्यमपि सीतेव रावणम् । परपूरुषमुज्झन्ती स्त्री सुरैरपि पूज्यते ॥ ५७ ॥ टीका-पूज्यते सक्रियते । काऽसौ, स्त्री । के, सुरैर्देवैः। किं पुनर्मनुष्या. दिभिरित्यपिशब्दार्थः । किं कुर्वती, उज्झन्ती तयन्ती। कं, परपूरुषं स्वभतुरन्यं पुरुषं । अत्र हेतौ शतृङ्, परपुरुषोज्झनेन सुरपूजाया अन्यत्वात् । किंविशिष्टमपि, रूपेत्यादि-रूपमाकारसौन्दर्य ऐश्वर्यं पूजार्थाज्ञाधिपत्यं कला गीतनृत्यादिका: रूयं चैश्वर्य च कलाश्च ताभिर्वर्यमुत्कुष्ट नसाधारणरूपादिमन्तमित्यर्थः । अपिर्विस्मये । केव कमित्याह-----सी तेव रावणं जानकी यथा लंकेश्वरम् ॥ ५७ ॥ ब्रह्माणुव्रतातिचारानाह--- इत्वरिकागमनं परविवाहकरण विटत्वमतिचाराः । ___ स्मरतीत्राभिनिवेशोऽनङ्गकोडा च पञ्च तुर्य यमे ।। ५८ ॥ टीका--इत्वरिकागमनादयः पञ्चा तिचारास्तुर्ययमे सार्वकालिकब्रह्मचर्या गुव्रते भवन्तीति सम्बन्धः । तत्रेत्वरिकागमनं अस्वामिका असती गणिकात्वेन पुंश्चलीत्वेन वा पुरुषानेति गच्छतीत्येवंशीला इत्वरी । तथा प्रतिपुरुषमेतीत्येवंशीलेति व्युत्पत्त्या वेश्यापीत्वरी । ततः कुत्सायां के इत्वरिका तस्यां गमनमासेवनं । इयं चात्र भावना-भाटिप्रदानान्नियतकालस्वीकारेण स्वक
SR No.022317
Book TitleSagar Dharm
Original Sutra AuthorN/A
AuthorAshadhar Pandit
PublisherJain Sahitya Prasarak Karyalay
Publication Year1928
Total Pages260
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy