SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ पंचमोध्यायः । १५९ किं कुर्वन्, उद्धरन् दुःखाद्विमोचयन्। कान्, दीनान् अवृत्तिव्याधिशोकानि । कथे, अतीव राक्षिकाद्यपेक्षयाऽतिशयेन । एतेन सम्यग्दर्शनशुद्धत्वं व्रतभूष गभूषितत्वं निमलशीलनिधित्व संवमनिष्ठत्वं जिनागमज्ञत्वं गुरुशुश्रूषकत्वं दयादिसदाचारपरत्वं चेति सप्तगुणयोगान्महाश्रावकत्वं कस्यचित् कृ तनः कालादिलब्धिविशेषवशाद्भवतीति तात्पर्यार्थोऽत्र प्रतिपत्तव्य इति भद्रम् ।। ५५॥ इत्याशावरविरचितायां त्वोपशधर्मामृतसागारधर्मदीपकायां भव्यकुमुदचन्द्रिकासज्ञायामादितश्चतुर्दश: प्रक्रमाच्च पञ्चमोऽध्यायः समाप्तः ॥ ५ ॥ अथ षष्ठोऽध्यायः। इदानीमाहोरात्रिकमाचारं श्रावकस्योपदेणुकाम: पूर्व पौर्वाह्निकीमितिकर्तव्यतां चतुर्दशभिः श्लोका करोति-- ब्राह्म मुहर्ते उत्थाय वृत्तपंचनमस्कृतिः। कोऽहं को मम धर्मः किं व्रतं चेति परामृशेत् ॥१॥ टीका-परामृशेत् चिन्तयेत् श्रावकः । किं, इति एतत् । तद्यथा-कोऽहं क्षत्रियो ब्राह्मणा दिवा इक्ष्वाकुवंशोद्भवोऽन्यवंशोद्भवो वाहमित्यादि चिन्तयेत् । तथा को मम धर्मा जैनोऽन्यो वा श्रावकीयो यत्यादिसंबंधी वा--मे देवादिसाक्षिक प्रतिपन्नो वृष इति चिंतयेत् । तथा किं व्रतं मूलगुणरूपमगुव्रतादिरूपं वा गम । चशब्दात् के गुरवो ममेति, कुत्र ग्रामे नगरादौ वा वसामीति, कोऽयं काल: प्रभातादिरिति चेत्यादि समुच्चीयते । स्ववर्णादिस्मृतौ हि तद्विरुद्धपरिहारं सुखेन करोति । कथम्भूतो भूत्वा, वृत्तपञ्चनमस्कृतिः अन्तर्जल्पेन बहिर्जल्पेनापि वा वृत्ता पठिता पञ्चनमस्कृतिः णमो अरिहंताणमित्यादिगाथारूपः पञ्चनमस्कारो येन स तथोक्तः । किं कृत्वा
SR No.022317
Book TitleSagar Dharm
Original Sutra AuthorN/A
AuthorAshadhar Pandit
PublisherJain Sahitya Prasarak Karyalay
Publication Year1928
Total Pages260
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy