________________
२६
सागारधर्मः ।
किं तत् , तरस मांस। किंविशिष्टं प्राणिहिंसार्पित पञ्चन्द्रियजीववधसम्पादितं । किं कुर्वत् ,अर्पयत् सम्पादयत्।कं, दर्प मदावेशं । कथं, तरां अतिशयेनेत्यऽव्ययमिदम् । मृष्टान्नादिभ्योऽतिशयेन प्राणिवधादुत्पन्न तद्वदपकरं चेत्यर्थ ॥ ८ ॥
इदानीं सांकल्पिकस्यापि पलभक्षणस्य दोषं तद्विरतिनिष्ठायाश्च गुणमुदाहरणद्वारेण दर्शयति-..
भ्रमति पिशिताशनाभि-ध्यानादपि सौरसेनवत्कुगतीः। ...... तद्विरतिरतः सुगति श्रयति नरश्चण्डवत्खदिरवद्वा ॥ ९ ॥
टीका--भ्रमति परापरविवर्ते परिवर्तयति । कोऽसौ, जीवः। काः, कुगतीः नरकादिभवग्रहणानि। कस्मात् पिशिताशनाभिध्यानादपि मांसभक्षणसङ्कल्पात्, किं पुनस्तद्भक्षणादित्यपिशब्दार्थः । किंवत् , सौरसेनवत् सौरसेनराज्ञा तुल्यं । तथा श्रयति लभते । कोऽसौ, नरः । कां, सुगति स्वर्गादिगति । किविशिष्टः सन्, तद्विरतिरतः पिशितनिवृत्तावासक्तः । किंवत्, चण्डवत् चण्डनामोज्जयिन्यां मातङ्गो यथा । अथवा खदिरवत् खदिरसारो नाम भिल्लराजो यथा ॥ ९ ॥
अधुना मांस सतां भक्षणीयं प्राण्यङ्गत्वान्मुद्गादिवदित्यनुमानाभिधानग्रहावेशान्मांसभक्षणदक्षिणान् प्रत्याह
प्राण्यङ्गत्वे समेऽप्यन्नं भोज्यं मांसं न धार्मिकैः ।
भोग्या स्त्रीत्वाविशेषेऽपि जनैर्जायैव नाम्बिका ॥ १० ॥ टीका-भोज्यं भोक्तव्यं । किं तत्, अन्नं मुद्ांदिधान्यं रसरक्तविकारजत्वा. भावात् । न तु भोज्यं । किं तत्, मांस रसरक्तविकारजत्वात् । कैः, धार्मिकैः धर्ममहिंसारूपं चरद्भिः । क्व सति, प्राण्यङ्गत्वे जीवकायत्वे । किविशिष्टे,समेऽपि
१ पञ्चेन्द्रियस्य कस्यापि वधे तन्मांसक्षणे। यथा हि नरकप्राप्ति-न तथा धान्यभोजनात् ॥ धान्यपाके प्राणिवधः परमेकोऽवशिष्यते । गृहिणां देशयमिनां स तु नात्यंतबाधकः ॥ मांसखादकगतिं विमृशंतः शस्यभोजनम्ता इह संतः । प्राप्नुवंति सुरसम्पदमुच्चै-जैनशासनजुषो गृहिणोऽपि ।।