________________
द्वितीयोध्यायः ।
२५
:
1
टीका - स्यात् भवेत् । कोऽसौ पुमान् किंविशिष्ट:, हिंस्रः द्रव्य हिंसाशीलः । भावहिंसायास्तु मांसभक्षणे दर्पकरतरत्वेन वक्ष्यमाणत्वात् । किं कुर्वन्, अश्नन् खादन्, स्पृशन् वा हस्तादिना संयोजयन् । किं तत्, पलं मांसं । कस्य, स्वयमृतस्यापि भोक्तुः प्रयत्नमन्तरेणापि त्यक्तप्राणस्य मत्स्यमहिषादेः किं पुनरात्मना वधितस्येत्यपिशब्दार्थः । कुत इत्याह- हि यस्मात् । भवन्ति । का, स्तत्पेश्यः तस्य पलस्य पेश्यः कोशाः । किंविशिष्टाः, निगोदौघसुतः निगोदानां साधारणांगजीवानामे कशरीरभोक्तृणामनन्तप्राणिनामोघाः सङ्घातास्तान् सुवन्ति जनयन्तीति निगोदौघसुतः । किं कदाचिन्नत्याह- सदा सर्वदा । किंविशिष्टाः सत्यः, पक्का पक्का पक्काश्चापक्काश्चेति विगृह्यैकशेषेण पक्का पक्का इत्यस्य लोपस्तेन पक्काः आमाः पच्यमानाश्चेत्यर्थः ॥ ७ ॥
अथ मांसस्य प्राणिहिंसा तिरे कप्रभवत्वेनेन्द्रियदर्प करतरत्वेन च भावहिंसाहेतुत्वानुवादपुरस्सरं तद्भक्षणं नरकादिगतिविवर्तन निमितत्वेनोपदिशन्नाहप्राणिहिंसार्पितं दर्प-मर्पयत्तरसं तराम् ।
रसयित्वा नृशंसः स्वं विवर्तयति संसृतौ ॥ ८ ॥
टीका-विवर्तयति द्रव्यक्षेत्रकालभावैः परिवर्तयति । कोऽसौ, नृशंसः क्रूरकर्मकृत् । कं, स्वं आत्मानं । क, संसृतौ संसारे । किं कृत्वा, रसयित्वा आस्वाद्य ।
१ अभिमानभयजुगुप्सा- हाम्यारतिक'मशोक कोपाद्याः । हिंसायाः पर्यायाः सर्वेऽपि च नरकसंनिहिताः ||
न विना प्राणिविघातान्मांसस्योत्पत्तिरिष्यते यस्मात् । मांस भजतस्तस्मात् प्रसरत्यनिवारिता हिंसा ॥
ये भक्षयन्त्यन्यपलं स्वकीयपलपुष्टये । त एव घातका यन्न वद को भक्षकं विना ॥ मांसास्वादनलुब्बस्य देहिनो देहिनं प्रति । हन्तुं प्रवर्तते बुद्धि: शाकिन्य इव दुर्धियः २ आमां न्ग पक्कां वा खादति वा स्पृशति वा पिशितपेशीम् । स निहन्ति सततनिचितं पिण्डं बहुजीवकोटीनाम् ॥ आमास्वपि पक्कास्वपि विपच्यमानासु मांसपेशीषु । सातत्येनोत्पादस्तज्जातीनां निगोतानाम् ॥