________________
२००
सागारधर्मः ।
शोभानाकांक्षणात् । तथा सितकौपीनसंव्यानो भवेत् श्वेतकक्षापटोत्तरीयपटश्वासौ स्यादित्यर्थः ॥ ____स उत्कृष्ट उद्दिष्टविरतश्रावकः द्विविधो भवति इति सम्बन्धः । तत्र तावत् प्रथमः आद्यः । किविशिष्टः, सितकौपीनसंव्यानः कौपीनं गुह्यप्रच्छादनवस्त्रं संव्यानं उत्तरीयवस्त्रं कौपीनं च संव्यानं च कौपीनसव्यानं सिते कौपीनसंव्याने यस्य स तथोक्तः। किं कुर्यात्, अपनाययेत् अन्येनोत्सारयेत् । कान, श्मश्रुमूर्धजान् । श्मश्रूणि कूर्चान् केशान् मूर्धजान् शिरःकेशान न तु कक्षादिस्थान् । कया, कर्तर्या कर्तरिकया वा अथवा क्षुरेण रोमशस्त्रविशेषेण । अत्र द्वितीयो वाशब्दः समुच्चयार्थ ज्ञातव्यो यथासम्भवमिति ॥ ३८ ॥
स्थानादिषु प्रतिलिखेत मृदूपकरणेन सः ।
कुर्यादेव चतुष्पामुपवास चतुर्विधम् ॥ ३९ ॥ टीका-प्रतिलिखेत् भूतला दिषु प्रमृज्यात् । कोसौ, स प्रथम उत्कृष्टः । केन, मृदूपकरणेन मृदुना सुकुमारेण जन्त्वबाधकेनोपकरणेन वस्त्रादिना । केषु कर्त्तव्येषु, स्थानादिषु उद्भीभावोपवेशनसंवेशनादिषु । तथा कुर्यादेव अवश्यं विदध्यादसौ । कं, उपवासमनशनं । किंविशिष्ट, चतुर्विधं चतस्रो विधा आहारास्त्याज्या यस्मिन्नसौ चतुर्विधस्तं । चतुष्पा मासि मासि द्वयोरष्टम्योर्द्वयोश्चतुर्दश्योः ॥ ३९ ॥
स्वयं समुपविष्टोऽद्यात्पाणिपात्रेऽथ भाजने । स श्रावकगृहं गत्वा पात्रपाणिस्तदङ्गणे ॥ ४० ॥ स्थित्वा भिक्षां धर्मलाभं भणित्वा प्रार्थयेत वा। मौनेन दर्शयित्वाऽङ्गं लाभालाभे समोऽचिरात् ॥ ४१ ॥ निर्गत्याऽन्यद्गृहं गच्छेद्भिक्षोद्युक्तस्तु केनचित् । भोजनायार्थितोऽद्यात्तद् भुक्त्वा यद्भिक्षितं मनाक् ॥ ४२ ॥