________________
: सागारधर्मः ।।
सद्य एव । किंविशिष्टं तत्, छिन्नम् अतिचरितं । कस्मात्, दर्षात् मदावेशात् प्रमादाद्वाऽनवधानात् ॥ ७९ ॥ किं व्रतमित्याह
सङ्कल्पपूर्वकः सेव्ये नियमोऽशुभकर्मणः ।
निवृत्तिर्वा व्रतं स्याद्वा प्रवृत्तिः शुभकर्मणि ॥ ८० ॥ टीका-स्याद्भवेत् । किं तत्, व्रत । किं, नियमः प्रत्याख्यानं । क, सेव्ये स्वदारताम्बूलादौ। किंविशिष्टः, संकल्पपूर्वकः, इदमियदेताव-तं कालं न सेविप्येऽहमिति मनसाऽध्यवसायं कृत्वा इत्यर्थः। अथवा अहमिदमियदेतावन्तं कालं सेविष्याम्येवेति सङ्कल्पेन नियमः प्रतिज्ञा व्रतं स्यात् । अथवा व्रतं स्यात् । किं, निवृत्तिः विरतिः। कस्मात् , अशुभकर्मणो हिंसादेः। किंविशिष्टा, सङ्कल्पपूर्विकेति लिङ्गपरिणामेन सम्बन्धः । अथवा व्रतं स्यात् । किं, प्रवृत्तिराचरणं । क, शुभकर्मणि पात्रदानादौ। सङ्कल्पपूर्विकेत्यत्रापि योज्यम् ॥ ८ ॥ विशिष्टागमप्रत्ययावष्टम्भात्प्राणिरक्षाविधिमनुशास्ति --
न हिंस्यात्सर्वभूतानीत्यार्ष धर्मे प्रमाणयन् ।
सागसोऽपि सदा रक्षेच्छक्त्या किं नु निरागसः ॥ ८१ ॥ टीका-रक्षेत् पालयेत्। कोऽसौ, धर्मी धार्मिकः । कान्, सागसोऽपि सापरापानपि जीवान् । कया, शक्त्या यथाशक्ति । किं निमित्तं, धर्मे धर्मनिमित्तं । क, सदा सर्वस्मिन् काले किं नु निरागसो निरपराधान् विशेषतो रक्षेदित्यर्थः। किं कुर्वन् ,प्रमाणयन् अविसंवादयन् इदमेवमित्थमेवेति प्रतिपद्यमानः। किं तत् ,आर्ष ऋषिभिः प्रोक्तं शास्त्रं । किंरूपमित्याह-इति एवं रूपं । न हिंस्यात् न हन्यात् । कोऽसौ,श्रेयोऽर्थी। कानि, सर्वभूतानि सर्वान् त्रसस्थावरजीवान् ॥ ८१ ॥ साङ्कल्पिकहिंसापरित्यागमुपदिश्यार्थान्तरन्यासेन समर्थयते
आरम्भेऽपि सदा हिंसां सुधीः साकल्पिकी त्यजेत् । नतोऽपि कर्षकादुःपापोऽनन्नपि धीवरः ॥ ८२ ॥