SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ ९६ सागारधर्मः 1 चतुष्पदानां वा स्यात् सोऽपि सार्थकोऽनर्थको वा । तत्रानर्थकस्तावच्छावकस्य कर्तु न युज्यते । सार्थकः पुनरसौ द्वेधा सापेक्षो निरपेक्षश्च । तत्र सापेक्षो यो दामगंध्यादिना शिथिलेन चतुष्पदानां विधीयते यश्च प्रदीपनादिषु मोचयितुं छेत्तुं वा शक्यते । निरपेक्षो यनिश्चलमत्यर्थममी बद्धधन्ते । द्विपदानां तु दासदासीचोरजारादिप्रमत्तपुत्रादीनां यदा बन्धो विधीयते तदा सविक्रमणा एवामी बन्धनया रक्षणीयाश्च यथाऽग्निभयादिषु न विनश्यन्ति । यद्वा द्विपदचतुष्पदाः श्रावण त एव संग्राह्या येऽद्धा एव तिष्ठन्तीति प्रथमोऽतिचारः । चधो दण्डकशाद्यभिघातः । सोऽपि दुर्भावाद्विधीयमानो बन्धवदतिचारः । यदि पुनः कोsपि न करोति विनयं तदा तं मर्माणि मुक्त्वा लतया दवरकेण वा सकृत् द्विर्वा ताडयेदिति द्वितीयोऽतिचारः । छेदः कर्णनासिकादीनामवयवानामप नयनं । सोऽपि दुर्भावात्क्रियमाणोऽतिचारो निर्दयं हस्तादीनां छेद इत्यर्थः स्वास्थ्यापेक्षया तु गण्डत्रणादिच्छेदनदहनादिकं ससान्त्वनं कुर्वतोऽपि नातिचारः स्यादिति तृतीयः । अतिभारादिरोपणं न्याय्यभारादतिरिक्तस्य वोढुमशक्यस्य भारस्यारोपणं वृषभादीनां पृष्ठस्कन्धादौ वाहनोपाधिरोपणं । तदपि दुर्भावात् क्रोधाल्लोभाद्वा क्रियमाणमतिचारः । अत्राप्ययं विधिः - श्रावकेण तावत् द्विपदादिवाहनेन जीविका प्रागेव मोक्तव्येत्येष श्रेष्ठः पक्षः । अथान्योऽसौ न स्यात्तदा द्विपदो यावन्तं भारं स्वयमुत्क्षिपति अवतारयति च तावन्तमेव वाह्यते मोच्यते चोचितवेलायाम् । चतुष्पदस्य तु यथोचितभारः किञ्चिदुनः क्रियते हलकटादिषु पुनरुचितवेलायामसौ मुच्यते इति चतुर्थ: । भुक्तिरोधोऽन्नपानादिनिषेधः । सोऽपि दुर्भावाद्वन्प्रवदतिचारः । तीक्ष्णक्षुधा दिपीडितः प्राणी म्रियत इत्यन्नादिनिरोधो न कस्यापि कर्तव्यः । अपराधकारिणि च चैव वदेदद्य तेन दास्यते भोजनादिकमिति । स्वभोजन वेलायां तु नियमत एवान्य भोजयित्वा स्वयं भुञ्जीतान्यत्रेोपवास चिकित्स्यज्वरादिव्याधितेभ्यः । शान्तिनिमित्तं चोपवासाद्यपि कारयेदिति पञ्चमः । किं बहुना मूलगुणस्या 1
SR No.022317
Book TitleSagar Dharm
Original Sutra AuthorN/A
AuthorAshadhar Pandit
PublisherJain Sahitya Prasarak Karyalay
Publication Year1928
Total Pages260
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy