________________
अष्टमोध्यायः ।
२२१
ममकाराद्वा । यश्च रागादेविराधकः स्वस्य वैमनस्योत्पादकः सम्पन्नस्तस्मै । क्षाम्यच्च क्षमा कुर्यात्सः । केन, त्रिविधेन मनोवाकायेन ॥ ३१ ॥ क्षमणकरणाकरणयोः फलमाहतीर्णो भवार्णवस्तैर्ये क्षाम्यन्ति क्षमयन्ति च।
क्षाम्यन्ति न क्षमयतां ये ते दीर्घाजवजवाः॥ ३२ ॥ टीका-तैः पुम्भिः । तीर्णो लचितः । कोऽसौ, भवार्णवः संसाराब्धिः । ये किं, ये क्षाम्यन्ति विराधकाय क्षमां कुर्वन्ति । ये च क्षमयन्ति विराद्धं क्षमां कारयन्ति । ये पुनर्न क्षाम्यन्ति । केषां क्षमयतां क्षमां कारयतां । ते भवन्ति । किंविशिष्टाः, दीर्घाजवजवाः चिरसंसाराः ॥ ३२ ॥ क्षपकस्यालोचनाविधिमाह
योग्यायां वसतौ काले स्वागः सर्व स सूरये । निवेद्य शोधितस्तन निःशल्यो विहरेत्पथि ॥ ३३ ॥ टीका-विहरेत् प्रवर्तेत । कोऽसौ, स क्षपकः । क्व, पथि रत्नत्रये । किंविशिष्टः सन्, निःशल्यो मायादिशल्यरहितः । कथं भूतो भूत्वा, शोधितः प्रतिक्रमणेन प्रायश्चित्तादिविधिना निष्कासितदोषः। केन, तेन का । किं कृत्वा, निवेद्य आलोच्य । किं तत्, स्वाग आत्मनो व्रतादावतीचारं। किंविशिष्टं, सर्व । कस्मै, सूरये निर्यापकाचार्याय । क, वसतौ स्थाने । किविशिष्टायां, योग्यायां आलोचनोचितायां, तथा कालेऽपि योग्ये ॥ ३३ ॥ स्तरारोहणविधिमाहविशुद्धिसुधया सिक्तः स यथोक्तं समाधये ।
प्रागुदग्या शिरः कृत्वा स्वस्थः संस्तरमाश्रयेत् ॥ ३४ ॥ टीका. आश्रये आरोहयेत्सः । कं, संस्तरं । किंविशिष्टं, यथोक्तं येन प्रकारणागमे कथित । कस्मै, समाधये समाधिनिमित्त । किंविशिष्टः सन, स्वस्थः निर्व्याक्षेपः। किं कृत्वा, कृत्वा । किं तद्, शिरः शीर्ष । क, प्राक् पूर्व