SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ २२० सागारधर्मः। संन्यासार्थ क्षेत्रविशेषस्वीकारमाह प्रायार्थी जिनजन्मादिस्थान परमपावनम् । __आश्रयेत्तदलाभे तु योग्यमहद्हादिकम् ॥ २९ ॥ टीका-आश्रयेदुपसर्पत । कोऽसौ, प्राय.र्थी संन्यासानशनकामः । किं तत्, जिनजन्मादिस्थानं । किंविशिष्ट, परमपावनं परं पवित्रीकरणं । तत्र जन्मस्थानं वृषभनाथस्यायोद्धया। निष्क्रमणस्थानं सिद्धार्थवनं । ज्ञानस्थान शकटमुखोद्यानं । निर्वाणस्थानं कैलासः । एवमन्येषामपि जन्मादिस्थानानि यथागममधिगम्यानि । तदलाभे तु तस्याप्राप्तौ पुनराश्रयेदसौ। किं तत्, अहहादिकं जिनचैत्यालयसयताश्रमादिकं । किविशिष्ट, योग्यं समाधिसाधनसमर्थम् ॥ २९ ॥ तीर्थ प्रति चलितस्यावान्तरमार्गेऽपि मृतस्याराधकत्वं दर्शयति प्रस्थितो यदि तीर्थाय म्रियतेवान्तरे तदा। अस्त्येवाराधको यस्माद्भावना भवनाशिनी ॥ ३० ॥ टीका-यदि म्रियते समाध्यर्थी । क, अवान्तरे स्वस्थानतीर्थस्थानयोरन्तराले । उपलक्षणमेतत् । तेन निर्यापकाचार्यमरणमप्याराधकं स्यादेव । किंविशिष्टः सन्, प्रस्थितो गन्तुमारब्धः । कस्मै, तीर्थाय जिनजन्मादिस्थानाय नर्यापकाचार्याय वा । तदा अस्त्येव अवश्यं भवत्यसौ। किविशिष्टः, आराधकः यस्मात्कारणाद्भवति । काऽसौ, भावना समाधिसाधनप्रणिधानं । किविशिष्टा, भवनाशिनी संसारनिरसनी ॥ ३०॥ तीर्थ गमिष्यन् क्षमापनं क्षमणं च कुर्यादित्युपदिशति रागाद् द्वेषान्ममत्वाद्वा यो विराद्धो विराधकः । यश्च तं क्षमयेत्तस्मै क्षाम्येच्च त्रिविधेन सः॥ ३१ ॥ टीका-क्षमयेत् क्षमां कारयेत्स तीर्थ जिगमिषु । कं, तं । यः किं, यो विराद्धो दुःखे स्थापितः । कस्मात्, रागात् स्नेहात द्वेषात् क्रोधात् ममत्वात्
SR No.022317
Book TitleSagar Dharm
Original Sutra AuthorN/A
AuthorAshadhar Pandit
PublisherJain Sahitya Prasarak Karyalay
Publication Year1928
Total Pages260
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy