SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ १५० सागारधर्मः । वेक्षणमप्रमार्जनेन च दुप्प्रमार्जन संगृह्यते नञः कुत्सार्थस्यापि दर्शनात् । यथा कुत्सितो ब्र ह्मणोऽब्राह्मणः । अनादर क्षुप डिवादावश्यक प्वनुत्साहः प्रोषधव्रत एव वा । तद्वदनैकान्यमपि अन्यमनस्कत्वम् ॥ ४० ॥ अथातिथिसंविभा व्रतं लक्षय त-- व्रतमतिथिसंविभागः पात्र विशेषाय विधिविशषेण । द्रव्यविशेषवितरण दातृविशेषस्य फल विशपाय : ४१ ॥ टीका-भवति। किंतत व्रतं नियमेन सेव्यता प्रतिपन्न वात् । तथा च सति अतिथ्यलाभेऽपि तद्दानफलभाक्त्वोपपत्तेः । किं नाम, अतिथिसंविभागः अतिथेः सम्यक् निर्दोषो विभागः स्वार्थकृतभक्ताद्य दानरूपः । एतदेव व्यक्तीकर्तुमाह-द्रव्यविशेषवितरण वश्यमाणलक्षण व शष्टद्रव्यदानं । कम्मै, पात्रविशेषाय। कस्य कर्तुः, दातृविशेषस्य । के न, विधिविशेषेण । कस्मै, फलविशेषाय ॥ ४१ ॥ अतिथिशब्दव्युत्पादनमुखेनातिथिलक्षणमाहज्ञानादिसिद्धयर्थतनुस्थित्यथानाय यः स्वयम् । यत्नेनातति गेहं वा न तिथियस्य सोऽतिथिः ॥ ४२ ॥ टीका-भवति । कोऽसौ, अतिथिः । यः किं, योऽतति सर्वदा गच्छति । किं तत्, गेहं दातृगृहं । केन, य नेन संयमाविराधनेन । कथं. स्वयं आह्वानादिना विना। किमर्थ, ज्ञानादी त्या दि-ज्ञानादीनां सिद्धिः सावनं सम्पूर्णीकरण ज्ञानादिसिद्धिरर्थः प्रयोजनं यस्याः सा ज्ञानादि सिद्धयर्था सा चासौ तनुश्च शरीरं ज्ञानादिसिद्धयर्थतनुः तस्याः स्थितिर्यावदायुरवस्थानं सैवार्थः प्रयोजनं यम्य तत्तदर्थ नच्च तदन्नं च भोजनं तम्मै वा । अथवा सोऽतिथिर्भण्यते । उपलक्षणात्पर्बोत्सवौ च । गस्ति तिथिर्यस्ये यतिथिरिति व्युत्पत्तेः । उक्तं च-" तिथिपर्वोत्सवाः सर्वे त्यक्ता येन महात्मना । अतिथिं तं विजानीयाच्छेषमभ्यागतं विदुः " ॥ ४२ ॥ पात्रस्वरूपसंख्यानिर्णयार्थमाह
SR No.022317
Book TitleSagar Dharm
Original Sutra AuthorN/A
AuthorAshadhar Pandit
PublisherJain Sahitya Prasarak Karyalay
Publication Year1928
Total Pages260
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy