SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ पंचमोध्यायः । यत्तारयति जन्मान्धेः स्वाश्रितान्यानपात्रवत् । मुक्त्यर्थगुणसंयोगभेदात्पात्र त्रिधा मतम् ॥ ४३ ॥ टीका- -अस्ति भवति । किं तू. पात्रं । कतिधा, त्रिधा त्रिभेदं । कस्मात्. मुक्त्येति-मुक्तेरर्थो निमित्तं कारणं, मुक्तिर्वाऽर्थः प्रयोजनं येषां ते मुक्त्यर्थास्ते च ते गुणाश्च मम्याः र्शनादयो मुक्यगुणाग् तेषां संयोगः संयुज्यमानत्वं तेन भेदो विशेषस्तस्मात् । यति, यत्तारयति पारं पाययति । कान्, स्वाश्रितान् दानस्य कर्तृहेतुकनुमन्तून् । कम्मात् जन्माब्धेः संसारादणवादिव । किंवत् : यानपात्रवत् यानपात्रमम्भोधिस्थं यथा स्वाश्रितान् सांयात्रिकादीन् समुद्रातारयति तथा मादा श्रितान् यत्तारयति तत्पात्रमित्यर्थः ॥ ४३ ॥ एतदेव विशेषयन्नाह --- - १५१ यतिः स्यादुत्तमं पात्रं मध्यमं श्रावकोऽधमम् । सुदृष्टिस्तद्विशिष्टत्वं विशिष्टगुणयोगतः । ४४ ॥ टीका- स्यात् । किं तत्, पात्र किंविशिष्ट, उत्तममुत्कृष्टं । किं तत्, यतिः संयुज्यमान रत्नत्रयः । तथा मध्यमं पात्रं स्यात् । किं तत् श्रावकः संयुज्यमानसम्यग्दर्शनज्ञानविकल संयमः । तथा अधमं पात्र स्यात् । किं तत्. सुदृष्टि संयतसम्यग्दृष्टिः । स्वाच्च । किं तत्, तद्विशिष्टत्वं तेषामुत्तम- मध्यमाघमात्राणां विशेष: परस्परतः परेभ्यश्च भेदः । कस्मात् विशिष्टगुणयोगतः गुणविशेषसम्बन्धात् ॥ ४४ ॥ दानविधेः प्रकारान वैशिष्ट्यं चाह प्रतिग्रहोच्चस्थानांप्रिक्षालनाचनतीर्विदुः । योगानशुद्धीच विधीन् नवादरविशेषितान् ॥ ४५ ॥ टीका - विदुः जानन्ति पूर्वाचार्याः । कानू, विधीन् दान योगोपायान् । कति, नव । किमाख्यान, प्रतिग्रहादीन् । किं विशिष्टान, आदरविशेषितान् आदरेण यथायोग्यभुक्त्युपचारेण वैशिष्ट्यं नीतान् । तत्र प्रतिग्रहः स्वगृहद्वारे यतिं दृष्ट्रा प्रसादं कुरुतेत्यभ्यर्थ्य नमोऽस्तु तिष्ठतेति त्रिर्भणित्वा स्वीकरण 1.
SR No.022317
Book TitleSagar Dharm
Original Sutra AuthorN/A
AuthorAshadhar Pandit
PublisherJain Sahitya Prasarak Karyalay
Publication Year1928
Total Pages260
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy