________________
अष्टमोध्यायः।
२१३
भक्तप्रत्याख्यानं सार्वकालिकसंन्यास शुद्धस्वात्मध्यानपरत्वमित्यर्थः । क सति,आयुषि भवधारणकारणे कर्मणि। किं कुर्वति, सकृदक्रमेण विरमत्यावर्तनाने नश्याते । कस्मात् , भृशापवर्तकवशात् अगाढापमृत्युकारणसामर्थ्यात् । किंवत्, कदलीघातवत् छिद्यमानकदलीकाण्डे यथा ॥ ११ ॥ स्वपाकच्युत्या स्वयं पातोन्मुखे देहे सल्लेखना विधेयेत्युपदिशात
क्रमेण पक्त्या फलवत् स्वयमेव पतिष्यति ।।
देहे प्रीत्या महासत्वः कुर्यात्सल्लेखनाविधिम् ॥ १२ ॥ टीका-कुर्यात् । कोसौ,महासत्त्वः अनिवार्यधैर्यवीर्यः। कं,सल्लेखनाविधि। कया, प्रीत्या प्रमोदेन । क्व सति, देहे। किं करिष्यति, पतिष्यति विनाशयि'प्यति सति । केन, स्वयमेव कारणान्तरमन्तरेणैव । किं कृत्वा, पक्त्वा परिणम्य पतनयोग्यतामासाद्य । केन, क्रमेण कालानुपूर्व्या । किंवत्, फलवद् वृक्षफलेन तुल्यं । पातोन्मुखकायलिंगं यथा-"प्रतिदिवस विजहबलमुज्झद् मुक्तिं त्यजत्प्रतीकारं । वपुरेव नृणां निगदति चरमचरित्रोदय समयम्”॥१२॥ कायनिर्ममत्वभावना विधिमाह
जन्ममृत्युजरातङ्काः कायस्यैव न जातु मे।।
न च काऽपि भवत्येष ममेत्यङ्गेऽस्तु मिर्ममः ।। १३ ॥ टीका ... अस्तु समाधिमरणार्थी भवतु । किंविशिष्टो, निर्ममो ममेदमिति सङ्कल्परहितः । क, अङ्गे । कथे, इत्येवं । भवन्ति । के, जन्ममृत्युजरातङ्काः जन्म च मृत्युश्च जरा च आतङ्कश्च ज्वरादिव्याधिस्ते रोगपुद्गलविवनेकत्वात्कायस्यैव पुद्गलस्तूपस्य । न जातु कदाचिदपि । मे शुद्धचिद्रूपमात्रस्यात्मनः । न च नापि भवति । कोसौ, एष कायः । किविशिष्टः, कोपि कश्चिदुपकर्ता अपकर्ता वा। कस्य, मम शुद्धचिदानन्दमयस्य ॥ १३ ॥
आहारहापनसमयमाह