________________
१९८
सागारधर्मः।
शेष प्राग्वत् ॥ अहो समस्तेतराचारप्रवर्तकस्वशक्त्यनिगृहनलक्षणवीर्याचार, शेष प्राग्वत् । अयं यथोचितमेतदाचक्ष्महे ॥तथाहि-अहो मदीयशरीरजनकस्यात्मन् अहो मदीयशरीरजनन्यात्मन् नायं मदात्मा युवाभ्यां जनितो भवतीति निश्चयेन युवां जानीतं । तत आपृष्टौ युवामिममात्मानं विमुञ्चतं । अयमात्माऽद्योद्भिन्नज्ञानज्योतिरात्मानमेवात्मनोऽनादिजनकमुपसर्पति। तथा अहो मदीयशरीरबन्धुजनवर्तिन आत्मानः अयं मदात्मा न किञ्चनापि युष्माकं भवतीति निश्चयेन यूयं जानीथ तत आपृष्टा यूयं, शेषं पूर्ववत् । नवरं, जनकमित्यस्य स्थाने बंधुमिति पठनीयं । अहो मदीयशरीरपुत्रस्यात्मन् मदात्मनो न त्वं जन्यो भवसीति निश्चयेन त्वं जानीहि । तत आपृष्टस्त्त्वमिममात्मानं विमुञ्च, शेषं प्राग्वत् । नवरं, बंधुस्थाने जन्यं पठेत् ।। अहो मदीयशरीररमण्या आत्मन मदात्मा न त्वां रमयतीति निश्चयेन त्वं जानीहि तत आपृष्टस्त्वमिममात्मानं विमुञ्च । अयमात्माऽद्योद्भिन्नज्ञानज्योतिः स्वानुभतिमेवात्मनोऽनादिरमणीमुपसर्पतीत्यादि ॥ ३४ ॥ विनयाचारस्य भेदं विस्तरेण प्रागुक्तमिदानीं सुखस्मृत्यर्थ संक्षिप्य पुनराह
सुदृनिवृत्ततपसां मुमुक्षोर्निर्मलीकृतौ।।
यत्नो विनय आचारो वीर्याच्छुद्धेषु तेषु तु ॥ ३५ ॥ टीका-भण्यते सूरिभिः । कोऽसौ, विनयः । किं, यत्नः प्रणिधानं । क्व, निर्मलीकृतौ मलापनयने । सुदृनिवृत्ततपसां सम्यग्दर्शनज्ञानचारित्रतपसां । कस्य, मुमुक्षोः न बुभुक्षोः ।आचारस्तु भण्यते । किं, यत्नः । केषु तेषु सहगादिषु चतुषु । किंविशिष्टेषु, शुद्धेषु निर्मलीकृतेषु । कस्मात् , वीयर्यात् स्वशक्तिमनिगुह्य । एतेन पञ्चमो वीर्याचारः सूच्यते ॥ ३५ ॥ सम्प्रत्युपसंहरति
इति चर्या गृहत्यागपर्यन्तां नैष्ठिकाग्रणीः । निष्ठाप्य साधकत्वाय पौरस्त्यपदमाश्रयेत् ॥ ३६ ॥