SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ पंचमोध्यायः । १४५ 1 भवति । कोऽसौ, मोक्षः । किं, आत्मा अनन्तज्ञानादिरूपत्वात्, तथा सुखं अनाकुलचिद्रूपत्वात्, तथा नित्यः अनन्तकालभाविप्रध्वंसाभावरूपत्वात्, तथा शुभः शुभकारणप्रभवत्वाच्छुभकार्यत्वाच्च तथा शरणं समस्त विपद्गम्यतया अपायपरिरक्षणोपायत्वात् । संसारः किंरूप इत्याह-अस्ति । कोऽसौ, भवः स्वोपात्तकर्मोदयवशाच्चतुर्गतिविवर्तपरिवर्तनं । कथं, अन्यथा मोक्षविपरीतलक्षणः अनात्मा दुःखमनित्योऽशरणमित्यर्थः । अस्मिँश्च भवे वसतोऽवतिष्ठमानस्य मम किमन्यत्सुखदुःखादि स्यादभृदस्ति भविष्यति च किन्त्वा - पात एव पुनःपुनर्भवेदित्यर्थः ॥ ३० ॥ 1 सामायिकसिद्धयर्थमन्यत्र श्रावकेण किं कर्तव्यमित्याह स्नपनाचस्तुतिजपान् साम्यार्थ प्रतिमार्पिते । युञ्ज्याद्यथाम्नायमाद्यादृते सङ्कल्पितेऽर्हति ॥ ३१ ॥ टीका - युञ्ज्यात्प्रयोजयेत् मुमुक्षुः । कान्. स्नपनाचस्तुतिजपान स्नपनमाश्रुत्येद्यादौ व्याख्यास्यते, अर्चादयो ज्ञानदीपिकायामत्र च प्राग्यथास्थानं व्याख्याताः । क्क, स्नपनादीन् युज्यात् अर्हति भगवदर्हदेव । किंविशिष्टे, प्रतिमार्पिते साकारस्थापनामवतारिते । कथं, यथाम्नायं उपासकाध्ययनाद्यागमानतिक्रमेण । किमर्थ, साम्यार्थ परमार्थसामायिकसिद्ध्यर्थं । अन्यत्र किं प्रयोक्तव्यमित्याह - आद्यादित्यादि - युञ्ज्यात्साम्यार्थी । किं तत्, आद्यात्स्नप - नात् ऋते विना अन्यदर्चादित्रयं । क, अर्हति । किंविशिष्ट, सङ्कल्पते निराकारस्थापनार्पिते । एतेन कृतप्रतिमापरिग्रहाः सङ्कल्पिताप्तपूजा महाश्वति ये देवसेवाधिकृता इति सूच्यते ॥ ३१ ॥ सामायिकस्य सुदुष्करत्वशक्कामपाकरोति सामायिकं सुदुःसाधमप्यभ्यासेन साध्यते । निम्नीकरोति वार्बिन्दुः किं नामानं मुहुः पतन् ॥ ३२ ॥ टीका - साध्यते निष्पाद्यते । किं तत्, सामायिकं । केन, अभ्यासेन असकृत्प्रवृत्या । किंविशिष्टमपि दुःसाधमपि अतिशयेन निष्पादयितुमशक्यमपि । १०
SR No.022317
Book TitleSagar Dharm
Original Sutra AuthorN/A
AuthorAshadhar Pandit
PublisherJain Sahitya Prasarak Karyalay
Publication Year1928
Total Pages260
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy