SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ पंचमोध्यायः । १५३ किंविशिष्टः सन, भक्तीत्यादि भक्त्यादयः सप्तगुणाः विशेषणानि परासाधारणानि यस्य स तथोक्तः । तत्र भक्ति पात्रगुणानुरागः । श्रद्धा पात्रदानफले प्रतीतिः। सत्त्वं सत्त्वाख्यो मनोगुणः म्वल्पवित्तस्यापि स्वाट्याश्चर्यकारिदानप्रवृत्यङ्गं । तुष्टिः दत्ते दीयमाने च प्रहर्षः । ज्ञानं द्रव्यादिवदित्वं । अलौल्यं सां. सारिकफलानपेक्षा । क्षमा दुर्निवार कालुष्यका णो पत्तावपि कोपाभावः। तदुतं-भानिकं तौष्टिकं श्राद्धं सविज्ञानमलोलुपम् । सात्त्विक क्षमकं सन्तो दातारं सप्तधा विदुः॥१॥ किं च, सत्त्वादिगुणदातृकं दानमपि सात्त्विकादिभेदा त्रविधमिष्यते । तदुक्तं-आतिथयं हितं यत्र यत्र पात्रपरीक्षणम् । गुणाः श्रद्धादयो यत्र तदानं सात्त्विकं विदुः ॥१॥ यदात्मवर्णनप्राय क्षणिकाहार्यविभ्रमम् ॥ परप्रत्ययसम्भूतं दानं तद्राजसं मतम् ॥ २॥ पात्रापात्रसमावेक्षमसत्कारमसंस्तुतम् ॥ दासभृत्यकृतोद्योगं दानं तामसमूचिरे ॥ ३ ॥ उत्तम सात्त्विकं दानं मध्यम राजसं भवेत् ॥ दानानामेव सर्वेषां जघन्यं तामसं पुनः।। दानफलं तद्विशेषं च व्याचष्टे रत्नत्रयोच्छ्रयो भोक्तुर्दातुः पुण्योच्चयः फलम् । ___ मुक्त्यन्तचित्राभ्युदयप्रदत्वं तद्विशिष्टता ॥४८॥ टीका-भवति । किं तत्, फलं दानस्य साध्य । कस्य, भोक्तुराहाराद्युपयोक्तुः । किं तत्, रत्नत्रयोच्छ्रयः सम्यग्दर्शनादीनामुद्गतिः तथा तत्फलं भवति । कस्य, दातुर्दायकस्य । किं तत्, पुण्योच्चयः, सुकृतराशिः । भवति । काऽसौ, तद्विशिष्टता तस्य दानस्य फलस्य वैशिष्टयं । कि तत् , मुक्त्यन्तेत्यादि चित्रा नानाप्रकारा इन्द्रचक्रिबलदेवतीर्थकरादिपदलक्षणाः विश्वविस्मयकराश्च अभ्युदयाश्चित्राभ्युदयाः, मुक्तिरनन्तज्ञानादिचतुष्टयप्राप्तिलक्षणं निःश्रेयस अन्ते अवसाने फलोपभोगच्छेदे येषां ते मुक्त्यन्तास्ते च ते चित्राभ्युदयाश्च मुक्त्यन्तचित्राभ्युदयास्तान् प्रकर्षणाप्रतिबन्धलक्षणेन ददाति सम्पादयतीति तत्पदं, तस्य भावस्तत्त्वम् ।।उक्तं च-पात्रदाने फलं मुख्यं मोक्षः सस्य कृषेखि ॥ पलालमिव भोगास्तु फलं स्यादानुषङ्गिकम् ॥ ४८ ॥
SR No.022317
Book TitleSagar Dharm
Original Sutra AuthorN/A
AuthorAshadhar Pandit
PublisherJain Sahitya Prasarak Karyalay
Publication Year1928
Total Pages260
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy