________________
नमो वीतरागाव। धर्मामृतस्थ उत्तरभागः सटीकः
सागारधर्मः
श्रीवर्धमानमानम्य मन्दबुद्धिप्रबुद्धये । धर्मामृतोक्तसागर-धर्मटीकां करोम्यहम् ॥ १ ॥ समर्थनादि यन्नात्र ब्रुवे. व्यासभयारक्वचित् । ...
तज्ज्ञानदीपिकाख्यैत-त्पञ्जिकायां विलोक्यताम् ॥ २॥ अथ चतुर्थाध्याये
सुदृग्बोधो गलवृत्त-मोहो विषयनिःस्पृहः ।
हिंसादेर्विरतः कााद्यतिः स्याच्छावकोंऽशत: ॥ इत्युक्तम् । अतो मध्यमङ्गलविधानपूर्वकं विनेयान्प्रति सागारधर्मामृत प्रतिपाद्यतया प्रतिजानीते
अथ नत्वाऽर्हतोऽरुण-चरणान् श्रमणानपि ।
तद्धर्मरागिणां धर्मः सागाराणां प्रणेष्यते ॥१॥ टीका-प्रणेष्यते प्रतिपादयिष्यतेऽस्माभिः। कः, उक्तकर्मतापन्नः धर्मः एकदेशविर तिलक्षणं चारित्रम् । केषां, सागाराणां वक्ष्यमाणलक्षणानां गृहस्थानाम् । किंविशिष्टानां, तद्धर्मरागिणां तेषां श्रमणानां धर्मे सर्वविरतिरूपे चारित्रे रागिणां संहननादिदोषादकुर्वतामपि प्रीतिमताम, यतिधर्मानुरागरहितानामगारिणां देशविरतेरप्यसम्यग्रूपत्वात् । सर्वविरतिलालसः खलु देशविरतिपरिणामः । किं कृत्वा प्रणेष्यते, नत्वा शिरःप्रव्हीकरणादिना विशुद्धमनोनियोगेन च पूजयित्वा । कान्, अर्हतस्तीर्थकरपरमदेवान् । किविशिष्टान्, अक्षूणचरणान् अक्षुणं सम्पूर्ण सकलमोहप्रक्षयादाविर्भूतत्वेन नित्य निर्मलं चरणं यथाख्यातचारित्रं येषां ते अक्षुणचरणास्तान् । न केवलमहतो