________________
२२४
सागारधर्मः
स्माभिनिवेशेनैव मोक्ष्यते मुक्तो भविष्यति । यत एवं तत एतस्मात्कारणात् तं स्वदेहग्रहमावहेत्कुर्यान्मुमुक्षुः ॥ ४० ॥ शुद्धिविवेकपाप्तिपूर्वकं समाधिमरण प्रणौति
अलब्धपूर्व किं तेन न लब्धं येन जीवितम् ।
त्यक्तं समाधिना शुद्धिं विवेक चाप्य पञ्चधा ॥ ४१ ॥ टीका- तेन महामव्येन । किमलब्धपूर्वमनादिकालमप्राप्तं सम्यक्त्वसहचारि महाभ्युदयादिकं न लब्धं तत्सर्व प्राप्तमित्यर्थः । येन जीवितं समाधिना रत्नत्रयैकाग्रतया त्यक्तं । किं कृवा, पञ्चधा पञ्चप्रकारं शुद्धिं पञ्चप्रकारं च विवेकमाप्य ॥ ४१ ॥ बहिरंगान्तरंगविषयभेदात्पञ्चविधां शुद्धिमाह
शय्योपध्यालोचनान्नवैयावृत्येषु पञ्चधा ।
शुद्धिः स्यात दृष्टिधीवृत्तविनयावश्यकेषु वा ॥ ४२ ॥ टीका—स्यादसौ शुद्धिः । कतिधा, पञ्चधा । केषु, शय्यादिषु विषयेषु । तत्र शाय्या वसतिसंस्तरौ उपधिः सयमसाधनं । आलोचना गुरवे दोषनिवेदनं । अन्नं चतुर्विगहाराः । वैयावृत्यं परिचारकैः क्रियमाण पादमर्दनादिक । तेषु पञ्चसु शुद्धिः प्राणेन्द्रियसंयमेन प्रवृत्तिरेषा बाह्या । इयं त्वन्तरङ्गा पञ्चधा शुद्धिः स्यात् । याऽसौ दृष्टयादिषु पंचसु । दृष्टौ दर्शने धियां ज्ञाने, वृत्ते चारित्रे, विनये प्रश्रये, आवश्यक सामयिकादिषटकाचरणे च निरतिचारतया प्रवृत्तिः ॥ ४२ ॥ शुद्धिवन्तद्वयेन पञ्चधा विवेकमाहविवेकोऽक्षकपायाङ्गभक्तोपधिषु पञ्चधा ।
स्याच्छय्योपधिकायानवयावृत्यकरेषु वा ।। ४३ ॥ टीका--विवेक आत्मनः पृथग्भावः साध्यवसायः पञ्चधा स्यात् । केषु, अक्षादिषु विषयेषु । तत्रेन्द्रियेभ्यः कषायेभ्यश्चात्मनः पृथक चिन्तनं द्विविध)