________________
सागारधर्मः । . सहजामहार्यो चालौकिकी गुणसम्पदमुद्रहतो भव्यान् यथासम्भवमवगमयन्नाह--
जाता जैनकुले पुरा जिनवृषाभ्यासानुभावाद्गुणे येऽयत्नोपनतैः स्फुरन्ति सुकृतामग्रेसराः केऽपि ते । येऽप्युत्पद्य कुदृवकुले विधिवशादीक्षोचिते स्वं गुणविद्याशिल्पविमुक्तवृत्तिनि पुनन्त्यन्वीरते तेऽपि तान् ॥२०॥ टीका-सन्ति । के ते, केऽपि प्रविरलाः सम्प्रति बहूनामभावात् । किविशिष्टा, अग्रेसराः सम्यक्त्वसहचारिपुण्योदयोन्मुख्याः । केषां, सुकृतां कृतपुण्यानां । ये किं, ये स्फुरन्ति लोकचित्ते चमत्कारं कुर्वन्ति । कैः, गुणः सग्यक्त्वादिभिः । किंविशिष्टं, यत्नोपनतैः प्रयत्नमन्तरेण प्राप्तैः सहजैरित्यर्थः । किंविशिष्टाः सन्तो, जाता उत्पन्नाः । क. जैनकुले जिनो देवता येषां ते जैनास्तेषां कुलं पूर्वपुरुषपरम्पराप्रभवो वंशस्तत्र, जिनोक्तगर्भाधानादिनिर्वाणपर्यन्तक्रियामंत्रसंस्कारयोग्ये महा-वय इत्यर्थः । कस्मात् , पुरा पूर्वजन्मनि जिनवृषस्य सर्वज्ञोक्तधर्मस्याभ्यासः असकृत्प्रवृत्तिस्तस्यानुभावो माहात्म्य तज्जनितपुष्योदयस्तस्मात् । तथा अन्वीरतेऽनुगच्छन्ति । के, तेऽपि । कान् , तान् पूर्वोक्तान् जैनकुलजातान् , तत्सहशा भवन्तीत्यर्थः । ये किं, ये पुनन्ति पवित्रीकुर्वन्ति । कं. स्वमात्मानं । कैः, गुणैः वक्ष्यमाणतत्वार्थप्रतिपत्यादिभिः । किं कृत्वा, उत्पद्य जनित्वा । क, कुक्कुलेऽपि मिथ्यादृष्टिवंशेऽपि । अपिरत्र विस्मये भिन्नक्रमः । किंविशिष्टे, दीक्षोचिते दीक्षा व्रताविष्करणं व्रतोन्मुखस्य वृत्तिरिति यावत्, सा चात्रोपासकदीक्षा जिनमुद्रा वा उपनीत्यादिसंस्कारो वा। पुनः किं विशिष्ट, विद्या शिल्पविमुक्तवृत्तिनि विद्याऽत्राजीवनार्थ गीतादि-शास्त्रं, शिल्पं कारुकर्म, ताभ्यां विमुक्ता ततोऽन्या वृत्तिर्वार्ता कृष्यादिलक्षणो जीवनोपायो यत्र तस्मिन् । कस्मात्, विधिवशात् मिथ्यात्वसहचारिपुण्योदययोगात्॥२०॥ __ इदानीं द्विजातिषु कुलक्रमायातमिथ्याधर्मपरिहारेण विधिवज्जिनोक्तमार्ग माश्रित्य स्वाध्यायध्यानबलादशुभकर्माणि निघ्नन्तं भव्यमभिष्टौति