________________
चतुर्योध्यायः ।
मिथ्या
सत्याणुव्रतस्य पञ्चातिचारान् हेयत्वेनाह
मिथ्यादिश रहोऽभ्याख्यां कूटलेखक्रियां त्यजेत् ।
न्यस्तांशविस्मनुज्ञां मन्त्रभेदं च तद्वतः ॥ ४५ ॥ • टीका-त्यजेत् । कोऽसौ, तद्वतः । तत्स्थूलालीकादिवचनविरतिलक्षणं व्रतं यस्यासौ सत्याणुव्रतीत्यर्थः । किं तत् , मिथ्यादिशमित्यादिपञ्चकं । तत्र मिथ्यादिक् मिथ्योपदेशः । अभ्युदयनि.श्रेयसार्थेषु क्रियाविशेषेप्वन्यस्यान्यथा प्रवर्तन । परेण सन्देहापन्नेन पृष्टेऽज्ञाना दिनान्यथा कथनमित्यर्थ । अथवा प्रतिपन्नसत्यव्रतस्य परपीडाकरं वचनमसत्यमेव । ततः प्रमादात्परपीडाकरणे उपदेशे अति वारो यथा बाह्यन्तां खरोष्ट्रादयो हन्यन्तां दस्यव इति निष्प्रयोजनंवचनं।यद्वा विवादे स्वयं परेण वाऽन्यतरातिसन्धानोगायोपदेशो मिथ्योपदेशः ॥ रहोऽभ्याख्या-रहस्येकान्त स्त्रीपुम्भ्यामनुष्ठितस्य क्रियाविशेषस्याभ्याख्या प्रकाशन यया दम्पत्योरन्यस्य वा पुंसः स्त्रिया वा रागप्रकर्ष उत्पद्यते । सा च हास्यक्रीडादिनैव क्रियमाणोऽतिचारो न त्वभिनिवेशेन । तथा सति व्रतभङ्ग एव स्यात् । कूटलेखक्रिया अन्येनानुक्तमननुष्ठितं च यत्किञ्चित्तस्य परप्रयोगवशादेवं तेनोक्तमनुष्ठित चति वञ्चनानिमित्तं लेखनं । अन्यसरूपाक्षरमुद्राकरणमित्यन्ये। न्यस्तांशविस्मर्त्रनुज्ञा--न्यस्तस्य निक्षिप्तस्य हिरण्यादिद्रव्यस्य अंशमेकमंशं विस्मर्तुविस्मरणशीलस्य निक्षे-तुरनुज्ञा । द्रव्यमनुनिक्षेप्तुर्बिस्मृततत्संख्यस्याल्पसं. ख्यं तद्गृह्नत एवमित्यनुमतिवचनं । सोऽयं न्यासापहाराख्योऽतिचारः। मन्त्रभेदः अङ्गविकारभृक्षपादिभिः पराभिप्राय ज्ञात्वाऽसूयादिना तत्प्रकटनं । विश्वसितमित्रादिभिर्वा आत्मना सह मन्त्रितस्य लज्जा दिकरस्यार्थस्य प्रकाशनं । यत्तु मन्त्रभेदः परीवादः पैशुन्यं कूटलेखनम् । मुधा साक्षिपदोक्तिश्च सत्यस्यैते विघातकाः ।। इति यशस्तिलके अतिचारान्तरवचनं तत्परेऽप्यूह्यास्तदात्यया इत्यनेन संगृहीतं प्रतिपत्तव्यम् ॥ ४५ ॥ अथाचायाणुव्रतलक्षणार्थमाह- . .......
चौरव्यपदेशकरस्थूलस्तयत्रतो मृतस्वधनात् । परमुदकादेवाखिलभोग्यान हरेदीत न परस्वम् ॥ ४६॥