SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ अष्टमोध्यायः । स्तेयानुभाव द्वाभ्यामाह आस्तां स्तेयमभिध्याऽपि विध्याप्याऽमिरिव त्वया । हरन परस्वं तदसून् जिहीर्षन् स्वं हिनस्ति हि ॥ ८५ ॥ टीका-भोः समाधिमरणार्थिन । आस्तां तिष्ठतु । किं तत्कथनेनेत्यर्थः । किं तत्, स्तेयं परधनापहरणं । विध्याप्या रामयितव्या त्वया । काऽसौ, अभिध्याऽपि परधनेच्छाऽपि । क इव, अमिरिव वन्हियथा तापहेतुत्वात् । हि यस्मात् हिनस्ति हन्ति । कोऽसौ, पुरुषः । कं, स्वमात्मानं । किं चिकीर्षन, जिहीर्षन् हर्तुमिच्छन् । कान, तदसुन् परप्राणान । किं कुर्वन्, हरन् अदतं गृहन् । किं तत, परस्वं परद्रव्यं । अयमत्राभिप्रायः-परधनं मुष्णतः परप्राणोपघातेच्छा अवश्य भाविनी, परजिघांसा चात्मनो हिंसा परमार्थतस्तम्या एव हिंसात्वात् । भावहिंसायामेव हि सत्यां द्रव्यहिंसा दुरन्तसंसारदुःखलक्षणं स्वफलं प्रयच्छतीति ॥ ८५ ॥ रात्रौ मुषित्वा कौशाम्बी दिवा पञ्चतपश्चरन् । शिक्यस्थस्तापसोऽधीगात् तलारकृतदुर्मतिः ॥८६॥ टीका-अघोऽगान्नरकं गतः । कोऽसौ, तापसो भौतिकः । किंविशिष्टः सन्, तलारकृतदुर्मतिः तलवरेण प्रवर्तितप्रकृष्टरौद्रध्यानाविष्टमरणः । किं कुवन, शिक्यस्थः परभूमिं न स्पृशामीति लम्बमाने शिक्ये स्थितः । पञ्जतपश्चरन् पञ्चाग्निसाधनं कुर्वन् । क्व, दिवा दिने । किं कृत्वा, मुषित्वा मुषितधनां कृत्वा । का, कौशाम्बी कौशाम्बीसज्ञनगरी तन्नगरीवास्तव्यलोकं । क्व. रात्रौ ।। ८६ ॥ ब्रह्मचर्यदायविधापनार्थमाह पूर्वेऽपि बहवो यत्र स्खलित्वा नोगताः पुनः । तत्परं ब्रह्म चरितुं ब्रह्मचर्य परं चरेत् ॥ ८७ ॥ टोका बहवः प्रभता: पूर्वे रुद्रादयः किं पुनरद्यतना मुनय इत्यपिश. १६
SR No.022317
Book TitleSagar Dharm
Original Sutra AuthorN/A
AuthorAshadhar Pandit
PublisherJain Sahitya Prasarak Karyalay
Publication Year1928
Total Pages260
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy