________________
सागारधर्मः ।
स्थूलहिंसाद्धृतस्तेय-मैथुनग्रन्थवर्जनम् । पापभीरुतयाऽभ्यस्ये द्वलवीर्यनिगृहकः ।। १६ ।। टीका - अभ्यसेद्भावयेत् । कोऽसौ, श्रावकः । किं तत्, स्थूलेत्यादि, वक्ष्यमा णलक्षणं स्थूलहिंसादिविरतिरूपमणुव्रतपञ्चकं । कया, पापभीरुतया, न तु राजादिभयेन, ततस्तदभ्यासे कर्मक्षपणाऽनिष्टेः । किंविशिष्टः सन्, बलवीर्यनिगूहक: बलमाहारादिजा शक्तिः सैव नैसर्गिकं वीर्य तयोर्निगूहकस्तदनुसारीत्यर्थः ॥ १६ ॥
एवं हि स्थूलहिंसाविरतिमभ्यस्यता वेश्यादाविव द्यूतेऽप्यासक्तिर्न कर्तव्येत्युपदिशति—
द्यूते हिंसा नृतस्तेय - लोभमायामये सजन् ।
1
क्व स्वं क्षिपति नानर्थे वेश्याखेटान्यदारवत् ॥ १७ ॥ टीका — कानर्थे न क्षिपति, सर्वस्मिन्धर्मादिभ्रंशे व्यापारयतीत्यर्थः । कं, स्वं आत्मानं जातिं च । किं कुर्वन्, सजन्, गृद्धिं कुर्वन्, कौतुकमात्रेण द्यूतक्रीडनस्य पाक्षिकेण त्यक्तुमशक्यत्वादेवमुच्यते । व सजन्, द्यूते । किंविशिष्टे हिंसा प्राणातिपातः, अनृतमसत्यवचनं, स्तेयं चौर्य, लोभो गार्ग्य, माया वञ्चना ताः प्रकृताः प्राचुर्येण कृता अस्मिन्निति हिंसादिभये । किंवत्, वेश्यायामाखेटे परदारेषु च यथा । वेश्यादिष्वपि हिंसादिमयत्वादासजतः स्वस्य ज्ञातीनां च पुरुषार्थभ्रंशस्य सुप्रसिद्धत्वात् ॥ १७ ॥
३०
१ सर्वानर्थप्रथनं मथनं शौचस्य सद्म मायायाः । दूरात्परिहर्तव्य चौर्यासत्यास्पदं द्यूतम् ॥
२ कौपीनं वसनं कदन्नमशनं शय्या धरा पांसुला जल्पाश्लीलगिर: कुटुम्बकजनद्रोहः सहाया विटाः । व्यापाराः पग्वञ्चनानि सुहृदचौरा महान्तो द्विषः प्रायः संघ दुरोदरव्यसनिनः ससांरवासक्रम: ।