________________
सागारधर्मः।
देवगुरुसधर्मसाक्षिकमपोहो विरतिः सैवात्मा एषां तानि तेषु । ' च शब्दस्यात्र भिन्नक्रमस्य योजनात् ॥ १६ ॥ किंलक्षणास्ते दर्शनिकादयो भवन्तीत्युदिशति
दृष्ट्या मूलगुणाष्टकं व्रतभरं सामायिकं प्रोषधं सच्चित्तानदिनव्यवायवनितारम्भोपधिम्यो मतात् । उद्दिष्टादपि भोजनाच विरतिं प्राप्ताः क्रमात्प्राग्गुण
प्रौढ्या दर्शनिकादयः सह भवन्त्येकादशोपासकाः ॥१७॥ टीका-भवन्ति। के, उपासकाः श्रावकाः । कति, एकादश । किन्नामानः दर्शनिकादयः । दर्शनिकोऽथ व्रतिक इत्यादिना वक्ष्यमाणाः। किंविशिष्टाः सन्तः,प्राप्ताः प्रतिपन्नाः । किं तत्, दृष्ट्या मूलगुणाष्टकमित्यादिविरतिमित्यन्तं देशसंयम । तथा हि-सम्यक्त्वेन विशिष्टं मूलगुणाष्टकं प्राप्तो दर्शनिकः। स एव च व्रतभर निरतिचाराण्यणुव्रतादीनि प्राप्तो व्रतिकः। एवमुत्तरेष्वपि सम्बन्धः कर्तव्यः । व्यवायो मैथुनम् , वनिता स्त्री, उपधिः परिग्रहः, मतात् मदर्थ साधु कृतमनेनेदमित्यनुमोदितात् , अपि भोजनात् मतादुद्दिष्टाच्च भोजनादपि विरति प्राप्तोऽनुमतविरत उद्दिष्टविरतश्च, योऽनुमतमुद्दिष्टं च भोजनमपि न कुर्यात् स किमर्थ अन्यत्रारम्भादौ पापकर्मण्यनुमतिं दद्यात्, उद्दिष्टं च वसत्याच्छादनादिकमुपयुञ्जीतेत्यपिशब्दाल्लभ्यते । कथं ते, तत्तत्पदं प्राप्ताः, सह सार्धम् । कया, प्राग्गुणप्रौढ्या दृष्टिमूलगुणाष्टकर्षण सह व्रतभरं, तत्रयप्रकर्षण सामायिकमित्यादियुक्त्य! ते तथा भवन्तीत्यर्थः । कस्मात्तथा भवन्ति, क्रमात् अनादिविषयाभ्यासासंयमभग्नमनस्कतया युगपत्तत्रासामर्थ्यात् । ___ साम्प्रतं दुरितापचयनिमित्तेज्यादिधर्मकर्मसिध्यर्थ कृष्यादिषट्कर्मलक्षण वार्तामाचरतो गृहस्थस्यावश्यंभावी सावद्यलेशः प्रायश्चित्तेन पक्षादिभिश्च निराकार्य इत्युपदेशार्थमाह- .
नित्याष्टाह्निकसच्चतुमुर्खमहः कल्पद्रुमैन्द्रध्वजाविज्याः पात्रसमक्रियान्वयदयादत्तीस्तपःसंयमान् । स्वाध्यायं च विधातुमादृतकृषीसेवावणिज्यादिकः शुन्याऽऽप्तोदितया गृही मललवं पक्षादिभिश्व क्षिपेत् ॥१७॥