SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ द्वितीयोध्यायः । विधिवप्रयुक्तं भक्तवसत्यादि। क्व, सङ्घ गुणसङ्घाते. प्राणिगणे। किंविशिष्टे, चतुर्विधे यत्यार्यिकाश्रावकश्राविकाप्रकारे। न केवलमर्हचैत्यचैत्यालयश्रुतेषु विधिवत्प्रयुक्तमात्मीयं धनमल्पशः प्रभूतं भूत्वा फलति, किं तर्हि, सधेऽपीत्य पिशब्दार्थः। एतेन सप्त गृहिणोधनव्ययस्थानानीत्युपदिष्टं वेदितव्यम् ॥७३॥ ___एवं धर्मपात्रानुग्रहं गृहस्थस्यावश्यकार्यतयोपदिश्य सम्प्रति कार्यपात्रानुग्रह विध्युपदेशार्थमाह धर्मार्थकामसधीचो यथौचित्यमुपाचरन् ।। सुधीनिवर्गसम्पत्त्या प्रेत्य चेह च मोदते ॥ ७४॥ टीका-मोदते प्रल्हादते । कोऽसौ, सुधीः सद्बुद्धिः । कया, त्रिवर्गस . म्पत्त्या धर्मार्थकामसम्पदा। क प्रेत्य जन्मान्तरे । इहास्मिञ्जन्मनि । द्वौ च शब्दौ जन्मद्वयेऽपि तुल्यकक्षतां सूचयतः । किं कुर्व-न्नुपाचरन् उपकुर्वन् , ऋणीकमन्यान् वुर्वन् । कान् , धर्मार्थकामसध्रीच: त्रिवर्गसहकारिणः पुरुषान् कथं, यथौचित्यं यद्यद्यस्य यस्य योग्यं दानमानादिकं तत्तत्तस्य तस्य कुर्वनित्यर्थः ॥ ७४ ॥ ___ एवं समदत्तिं पात्रदत्तिं च प्रबन्धेनाभिधायेदानीं दयादत्तिं विधेयतमत्वे नोपदिशन्नाह सर्वेषां देहिनां दुःखाद्विभ्यतामभयप्रदः। दयार्दो दातृधौरेयो निर्भीः सौरूप्यमश्नुते ॥ ७५ ॥ टीका-अश्नुते प्राप्नोति । कोऽसौ, अभयप्रदः प्राणादिभयापसारकः । १ तेनाधीतं श्रुतं सर्व तेन तप्तं परं तपः । तेन कृत्स्नं कृतं दानं यः स्यादभयदानवान् ।। धर्मार्थकाममोक्षाणां जीवितं मूलमिष्यते । तदक्षता न किं दत्तं हरता तन्न किं हृतम् ॥ .. दानमन्यद्भवेन्मा वा नरश्चेदभयप्रदः । सर्वेषामेव दानानां यतस्तद्दानमुत्तमम् ॥ यो भूतेष्वभयं दद्यात् भूतेभ्यस्तस्य नो भयम् ।
SR No.022317
Book TitleSagar Dharm
Original Sutra AuthorN/A
AuthorAshadhar Pandit
PublisherJain Sahitya Prasarak Karyalay
Publication Year1928
Total Pages260
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy