SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ चतुर्थोध्यायः। आसनं शयनं यान मार्गमन्यच वस्तु यत् । - अदृष्टं तन सेवेत यथाकालं भजनपि । दृष्टिग्रहण ज्ञानक्रियोपलक्षण । मुष्टिग्रहणे च ग्रहणादिक्रियोपलक्षणं । तथा न च वर्तयेत्। कोऽसौ, त्यक्तगृहः। कं, परं । क, तादृशे जीववधे । तथा न चरबयेत् न कुर्यात्। किं तत् ,नखच्छोटिकादि । क, तत्परे जीववधे स्वयमेव वर्तमाने पुंसि ॥ ८ ॥९॥ एवं त्यकगृहस्योगसकस्याहिंसाणुव्रतविधानमुपदिश्येदानी गृहवर्तिनस्तदुपदिशन्नाह इत्यनारम्भजां जह्याद्धिसामारम्भजां प्रति । ___ व्यर्थस्थावरहिंसावद् यतनामावहेद्ही ॥१०॥ टीका-जह्यात् त्यजेत् । कोऽसौ, गृही गृहवर्तिश्रावकः । कां, हिसां किंविशिष्टाम्, अनारम्भजां अनारम्भे आसनोपवेशनादौ जातां तत्सम्भविनीमित्यर्थः । उक्तं च___ गृहकार्याणि सर्वाणि दृष्टिपूतानि कारयेत् । कथं जह्यात् , इति अनेन त्यक्तगृहोपासकोपदिष्टेन प्रकारेण । तथा आवहेत् कुर्यात् । कोऽसौ, गृही । कां, यतनां समितिपरतां । कथं, प्रत्युद्दिश्य । कां, हिंसां । किंविशिष्टाम्, आरम्भजां कृष्याद्यारम्भसम्भविनीं । किंवत्, व्यर्थस्थावरहिंसावत् निष्प्रयोजनैकेन्द्रियवधे यथा ॥ १० ॥ स्थावरवधादपि निवृत्तिमुपपादयति यन्मुक्त्यङ्गमहिसैव तन्मुमुक्षुरुपासकः । एकाक्षवधमप्युज्झेद्यः स्यानावयंभोगकृत् ॥११॥ १ हिंसा द्वेधा प्रोक्ताऽऽरम्भानारम्भभेदतो दरः । गृहवासतो निवृतो देधाऽपि त्रायते तां च ॥ गृहवाससेवनरतो मन्दकषायः प्रवर्तितारम्भः । आरम्भजां स हिंसां शक्नोति न रक्षितुं नियतम् ।।
SR No.022317
Book TitleSagar Dharm
Original Sutra AuthorN/A
AuthorAshadhar Pandit
PublisherJain Sahitya Prasarak Karyalay
Publication Year1928
Total Pages260
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy