________________
सागारधर्मः।
त्रसान् हिनस्मीति मनःसङ्कल्पं न करोमीत्यर्थः । तथा मनसा त्रसहिंसामन्यं न कारयामि त्रसान् हिंसय हिंसयेति मनसाऽन्यप्रयोजको न भवामीत्यर्थः । अत्र हिंसयेति हन्त्यर्थाच्चति हिनस्तेश्चुरादिपाठाण्णिजन्तस्य रूपं । तथाऽन्य त्रसहिंसां कुर्वन्तं मनसा नानुमन्ये सुन्दरमनेन क्रियते इति मनःसङ्कल्पं न करोमीत्यर्थः । एवं वाचा स्वयं त्रसहिंसां न करोमि त्रसान् हिनस्मीति स्वयं वाचं नोच्चारयामीत्यर्थः । तथा वाचा त्रसहिंसां न कारयामि त्रसान् हिंसय हिंसयेति वाचं नोच्चारयामीत्यर्थः । तथाऽन्यं त्रसहिंसां कुर्वन्तं वाचा नानुमन्ये साधु क्रियते त्वयेति वाचं नोच्चारयामीत्यर्थः । तथा कायेन त्रसहिंसां स्वयं न करोमि त्रसहिंसने दृष्टिमुष्टिसन्धाने स्वयं कायव्यापार न करोमीत्यर्थः । तथा कायेन त्रसहिंसां न कास्यामि त्रसहिंसने हस्तादिसञ्ज्ञया कायेन परं न प्रेरयामीत्यर्थः । त्रसहिंसां कुर्वन्तमन्यं कायेन नानुमन्ये त्रसहिंसने प्रवर्तमानमन्यं नखच्छोटिकादिना नाभिनन्दामीत्यर्थः ॥ ७ ॥ एतदेव पद्यद्वयेन संगृहन्नाह
इमं सत्त्वं हिनस्मीति हिन्धि हिन्थ्येष साध्विमम् । हिनस्तीति वदन्नाभिसन्दध्यान्मनसा गिरा ॥ ८ ॥ वर्तेत न जीववधे करादिना दृष्टिमुष्टिसन्धाने ।
न च वर्तयेत्परं तत्परे नखच्झोटिकादि न च रचयेत् ॥९॥ टीका-नाभिसन्दध्यात्। न सङ्कल्पयेत् । कोऽसौ, त्यक्तगृहः श्रावकः । के, बंधं हिंसां । केन, मनसा तथा गिरा वाचा । कथमिति, किमिति हिनस्मि हन्मि । कं, सत्त्वं जीवं । किंविशिष्टम् , इमं पुरोवर्तिनं । तथा हिन्धि, ' हिन्धि मारय मारय । कं, इमं । तथा हिनस्ति । हन्ति । कोसौ, एषः पुरुषः । कम् , इमं । कथं, साधु सुंदरं । न वर्तेत न व्याप्रियेत । कोऽसौ, त्यक्तगृहः । ___ जीववधे जीवानां सत्त्वकल्पितत्रसप्राणिनां प्राणव्यपरोपणे । क विषये, दृष्टिमुष्टिसन्धाने दृष्टिश्चक्षुः मुष्टिहस्तांगुलीवन्धविशेषः,दृष्टिश्च मुष्टिश्च दृष्टिमुष्टी ताभ्यां सन्धानं संयोजनं यस्मिन् प्रवृत्तिविषये तद् दृष्टिमुष्टिसन्धानं पुस्तकासनादिकमुपकरणवस्तु तस्मिन् । त्यक्तगृहस्यापि श्रावकस्य सम्भविनि जीववधे करादिना हस्तांगुल्याद्यङ्गोपाङ्गेन न प्रवर्ततेत्यर्थः । उक्तं च