________________
१२८
सागारधर्मः।
चेतनमिति भुञ्जानस्यातिचारश्चतुर्थः ॥ ४ ॥
अभिषवं सौवीरादिद्रवं वा वृष्यं वा । अयमप्यतिक्रमादिनाऽतिचारः पञ्चमः ॥ ५॥
चारित्रसारे पुनः सचित्ताद्याहाराणामतिचारत्वोपपादनार्थमिदमुक्तं एतेषामभ्यवहरणे सचित्तोपयोग इन्द्रियमदवृद्धिर्वातादिप्रकोपो वा स्यात् । तत्प्रतीकारविधाने पापलेपो भवति । अतिथयश्चैनं परिहरेयुरिति ॥
अत्राह स्वामी यथा-विषयविषतोऽनुपेक्षाऽनुस्मृतिरतिलौल्यमतितृषानुभवौ ॥ भोगोपभोगपरिमा व्यतिक्रमाः पञ्च कथ्यन्ते ।। १॥ विषयविषतो विषकल्पेषु विषयेषु अनुपेक्षा आदरो विषयानुभवात्तद्वेदनाश्तीकारे जातेऽपि पुनरभीष्टाङ्गनासम्भाषणालिङ्गनाद्यवर्जनरूपः प्रथमः । अनुस्मृतिस्तु तदनुभवात्तत्प्रतीकारे जातेऽपि पुनः पुनर्विषयाणां सौन्दर्यसुखसाधनत्वाद्यनुचिन्तनमत्यासक्तिहेतुत्वादतिचारः । अतिलौल्यं अतिगृद्धिस्तत्परिहारे जातेऽपि पुनः पुनस्तदनुभवाकांक्षेत्यर्थः । अतितृषा कामिनीभोगादेरतिगृद्धया प्राप्त्याकांक्षा । अत्यनुभवो नियतक' लेऽपि यदा भोगोपभोगावनुभवति तदा अत्यासक्त्याऽनुभवति, न पुनर्वेदनाप्रतीकतयाऽतोऽतिचार इति ॥ एतेऽपि चात्र ग्रन्थे परेऽप्यूह्यास्तदत्यया इति वचनात्संगृहीता एव ॥
तद्वच्चमेऽपि श्रीसोमदेवबुधाभिमता:-दुप्पक्वस्य निषिद्धस्य जन्तुसम्बन्ध. मिश्रयोः ।। अवीक्षितस्य च प्राशस्तत्संख्याक्षतिकारणम् ॥ १॥ अत्राह सिताम्बराचार्यः-भोगोपभोगसाधनं यद्रव्यं तदुपार्जनाय यत्कर्म व्यापारस्तदपि भोगोपभोगशब्देनोच्यते कारणे कार्योपचारात् । ततः कोट्टपालनादिखरकर्मापि त्याज्यं । तत्र खरकर्मत्यागलक्षणे भोगोपभोगवते अङ्गारजीविकादीन् पञ्चदशातिचारांस्त्यजेदिति। तदचारु। लोके सावद्यकर्मणां परिगणनस्य कर्तुमशक्यत्वात् । अथोच्यते अतिमन्दमतिप्रतिपत्त्यर्थं तदुच्यते तर्हि तान् प्रतीदमप्यस्तु । मन्दमतीन् प्रति पुनस्त्रसबहुघातविषयार्थत्यागोपदेशेनैव तत्परिहारस्य प्रदर्शितत्वादिति ॥ २० ।।