SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ द्वितीयोध्यायः । ५९ भोगभाजो दृश्यन्ते ते सर्व कुपात्रदानतो यथापरिणाममुत्पन्नेन मिथ्यात्वसहचारिगा पुण्येन तथा स्युरिति निर्णय: । अश्नुते प्राप्नोति कोऽसौ, सद्दृष्टिः सम्यक्त्वविशुद्धो जीवः । तुर्विशेषे । किं, शिवपदं । किंभूतो भूत्वा, ' सुष्ठु यथेष्ट भुक्तानि उत्तमानि महर्द्धिकानि स्वर्भुवां कल्पोपपन्नदेवानां मर्त्यानां च चक्रवर्त्यादीनां पदानि येन स सुभुक्तोत्तमस्वर्भमर्त्यपदः । कस्मात्, सुपात्रदानसुकृतोद्रेकात् सुपात्राय महातपोधनाय त्रिविधपात्राय वा दानमनुग्रहार्थे स्वस्यातिसर्गस्तस्माज्जातं सुकृतं पुण्यं तस्योद्रेकादुदयात् । भवेत् । कोsसौ, व्ययः अर्थविनियोगः । क, अपात्रे' सम्यक्त्ववतरहितप्रणिनि । किंविशिष्टो, व्यर्थो विपरीतफलो निष्फलो वा ॥ ६७ ॥ इदानीं पात्रदानपुण्योदयफलभाजां भोगभूमिजानां जन्मप्रभृति सप्ताहसप्तकभाविनीरवस्था निर्देष्टुमाह सप्तोत्तानशया लिहन्ति दिवसान्स्वांगुष्ठाभार्यास्ततः मिथ्यात्वग्रस्तचित्तषु चारित्राभासभागिषु । दोषायैव भवेद्दानं पय पानमिवाहिषु ॥ कारुण्यादथवीचित्यात्तेषां किञ्चिदिशन्नपि । दिशेदुद्धृतमेवान्न गृहे भुक्तिं न कारयेत् ॥ सत्कारादिविधावेषां दर्शनं दूषितं भवेत् । यथा विशुद्वमप्यम्बु विषभाजनसंगमात् ॥ पात्राय विधिना दत्वा दान मृत्वा समाधिना । अच्युतान्तेषु कल्पेषु जायन्ते शुद्धदृष्टयः ॥ ज्ञात्वा धर्मप्रसादेन तत्र प्रभवमात्मनः । पूजयन्ति जिनाचीस्ते भक्त्या धर्मस्य वृद्धये ॥ १ - अपात्रदानतः किञ्चिन्न फलं पापतः परम् । लभ्यते हि फल खेदो वालुकापुञ्जपेषणे ॥ अपात्रय धनं दत्ते यो हिला पात्रमुत्तमम् | साधुं विहाय चौराय तदर्पयति स स्फुटम् ॥
SR No.022317
Book TitleSagar Dharm
Original Sutra AuthorN/A
AuthorAshadhar Pandit
PublisherJain Sahitya Prasarak Karyalay
Publication Year1928
Total Pages260
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy