SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ सागारधर्मः । 1 " पुण्यास्रवणकारणं स्वैरं चरणं मनोवाक्कायव्यापारस्तेन स्फुरचासौ धर्मोद्धर्ष स्तस्य प्रसरः स एव रसपूरो जलप्रवाहस्तेनास्तं स्फाटितं रजो येषा ते तथा । कथं स्युस्तत्र । यत्र किं यत्र न भवति । किं तत्, अहं जिनचैत्यालय: । किंविशिष्ट, दलितं छिन्नं खण्डितं कलिलीला विलसितं मउपत्यादिदुर्णयो निरंकुश विजृम्भमाणसंक्लेशपरिणामो वा यत्र तदलितक लिलीलाविलसितं । पुनः किंविशिष्टं, श्रमणगणमाश्रमपदं श्रमणस्य यतिसङ्घस्य धर्मार्थमाश्रमपदं निवासस्थानम् ॥ ३७ ॥ ४४ कलौ वसतिविशेषं विना सतामप्यनवस्थितचित्तत्वं दर्शयतिमनो मठकठेराणां वात्ययेवानवस्थया । चेक्षिप्यमाणं नाद्यत्वे क्रमते धर्मकर्मसु ॥ ३८ ॥ टीका-न क्रमते नोत्सहते । किं तन्मनः । केषां मठकठेरागां वसतिदरिद्राणा मरण्या दिवासिनां यतीनामित्यर्थः । क्व, धर्मकर्मसु धर्मार्थासु क्रियासु आवश्यकादिषु । कढ़ा, अद्यत्वे अस्मिन् काले । किं क्रियमाणं, चेक्षिप्यमाणं भृशं Į पुनः पुनर्वी चाल्यमानं । कया, अनवस्थया परापररागादिविवर्तनपरिणत्या । कयेव, वात्ययेव वातमण्डल्या तूला दिर्यथा ॥ ३८ ॥ विमर्शस्थानं विना महोपाध्यायादीनामपि शास्त्रान्तस्तत्वज्ञानदौः स्थित्यं प्रथयति ―――― विनेयवद्विनेतृणामपि स्वाध्यायशालया । विना विमर्शशून्या धीष्टेऽप्यन्धायतेऽध्वनि ॥ ३९ ॥ टीका- अन्धायते अन्धमिवात्मानमाचरति तत्त्वं न पश्यतीत्यर्थः । काऽसौ. धीर्बुद्धिः । केषां, विनेतृणामपि । केषामिव विनेयवत् उपाध्यायानाम् शिष्याणां यथा । क्व, अध्वनि मार्गे अर्थाच्छास्त्रे निःश्रेयसि वा । किंविशिष्टे ऽपि, दृष्टेऽपि। अभ्यस्तेऽपि । किंविशिष्टा सती, विमर्शशून्या अन्तस्तत्वक्षोदविधुरा । कथं विना । कया, स्वाध्यायशालया पाटस्थानेन । ततश्चेत्यादिचतुष्टयं श्रेयोऽर्थ नियमेन कारयेदिति प्रतिपत्तव्यम् || ३९ ॥ " सत्रातुरोपचारस्थानयोरनुकम्प्यप्राण्यनुग्रहबुद्ध्या विधापनं बारम्भरतानां गृहस्थानां जिनपूजार्थं पुष्पवाटिकादिनिर्मापणे दोषाभावं च प्रकाशयन्नाह -
SR No.022317
Book TitleSagar Dharm
Original Sutra AuthorN/A
AuthorAshadhar Pandit
PublisherJain Sahitya Prasarak Karyalay
Publication Year1928
Total Pages260
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy