________________
१२८
सागारधर्मः।
प्रत्याख्यानावरणाख्यचारित्रमोहपरिणामे । कस्मात् , दिव्रतेत्यादि दिव्रतेनो. द्रिक्तमुत्कर्ष नीतं व्रतघ्नकषायाणां प्रत्याख्यानावरणाख्यद्रव्यकोधादीनामुदयस्य विपाकस्य मान्धमनौत्कट्यं यत्तस्मात् दिग्विरतिमन्दतरीकृतप्रत्याख्यानावरणविपाकादित्यर्थः ॥ ४ ॥ दिग्विरत्यतिचारानाह
सीमविस्मृतिरूवा॑धस्तिर्यग्भागव्यतिक्रमाः।
अज्ञानतः प्रमादाद्वा क्षेत्रवृद्धिश्च तन्मलाः ॥ ५ ॥ टीका-भवन्ति । के ते, तन्मला: दिखतातिचारा: । कति, पञ्च । कथं, सीमविस्मृतिरूवभागव्यतिक्रमोऽधोभागव्यतिक्रमस्तियग्भागव्यतिक्रमः क्षेत्रवृद्धिश्चेति । कस्मात् , अज्ञानतः प्रमादाद्वेति सक्षपः । इतो विस्तरः-तत्र सीमविस्मृतिः-नियमितमर्यादाया अज्ञानतो मत्यपाटवसन्देहादिना प्रमादाद्वाऽतिव्याकुलत्वान्यमनस्कत्वादिना स्मृतिभ्रंशः । तथाहि-केनचित्पूर्वस्यां दिशि योजनशतरूप परिमाणं कृतमासीत् । गमनकालेच स्पष्टतया न स्मरति किं शतपरिमाणं कृतमुत पञ्चाशत् तस्य चैवं पञ्चाशतमतिकामतोऽतिचारः शतमतिक्रामतो भङ्गः सापेक्षत्वनिरपेक्षत्वाच्चेति प्रथमोऽतिचारः । ऊर्श्वेत्यादि ऊर्ध्व गिरितरुशिखरादेः, अधो ग्रामभूमिगृहकूपादेः, तिर्यपूर्वादिदिक्षु येऽमी भागा नियमितप्रदेशास्तेषां व्यतिक्रमा लङ्घनानि । एते च त्रयोऽनाभोगातिक्रमादिभिरेवातिचारा भवन्ति। अन्यथा प्रवृत्तौ तु भङ्ग एव।क्षेत्रवृद्धिःक्षेत्रस्य पूर्वादिदेशस्य दिग्विरतिविषयस्य हस्वस्य सतो वृद्धिः पश्चिमादिक्षेत्रान्तरपरिमाणप्रक्षेपेण दीर्धीकरणं । तथाहि-केनचित्पूर्वापरदिशोः प्रत्येक योजनशंत परिमाणीकृत्यैकत्र क्षेत्रं गमनकाले वर्द्धयतो व्रतसापेक्षत्वादतिचारः। यदि चाप्रणिधानात् क्षेत्रपरिमाणमतिक्रान्तं भवति तदा निवर्तितव्यं ज्ञाते वा न गन्तव्यमन्योऽपि न विसर्जनीयः । अथाज्ञतया कोऽपि गतः स्यात्तदा यत्तेन लब्धं तत्त्याज्यमिति पञ्चमः ॥ ५ .. अथानर्थदण्डव्रतं लक्षयति-- पीडा पापोपदेशाद्यैदेहाद्यर्थाद्विनाङ्गिनाम् । अनर्थदण्डस्तत्त्यागोऽनर्थदण्डव्रतं मतम् ॥ ६ ॥