________________
१२
.
सागारधर्मः।
___टीका-नोत्तप्यते नोत्कृष्टं क्लिश्यते । कोऽसौ, सोऽपि अविरतसम्यग्दृष्टिः, किं पुनः त्यक्तविषयसुखः सर्वात्मनैकदेशेन वा हिंसादिभ्यो विरतश्चेत्यपिशब्दार्थः । कैः कर्तृभिः, अघैः पापैर्दोषैर्वा बहुभिः । यः किं करोतीत्याहयो भजते सेवते। किं तत्, शर्म सुखम् । किं विशिष्टं, आक्षं अक्षेभ्य इंद्रियेभ्य आगतं चक्षुरादिभिरिष्टरूपादीननुभवत आविर्भूतमित्यर्थः । न केवलमिन्द्रिय सुखमनुभवति यो रुजत्यपि पीडयति च । कं, परं स्थावरं जंगमं वा भूतग्रामं । किं कुर्वन् , श्रद्दधत् अभिनिविशमानः। किं, हेयं वैषयिकं सुखं निजमुपादेय मति एव तु अनावधारणार्थो भिन्नक्रमः । हेयं त्याज्यं न जातु सेव्यं । किं तत्, सुखं । किंविशिष्टं, वैषयिकं विषयेष्विष्टकामिन्यादिप्वनुभूयमानेषु जातं, तत्सेवनस्य दुःखकारणकर्मबन्धनिबन्धनत्वात् । तथा उपादेय रत्नत्रयोपयोगादात्मन्याविर्भावनीयं । किं तत् , सुखं । किंभूतं, निजं आत्मोत्थं नित्य वा । इत्येवं रोचमानो न स्वप्नेऽप्यन्यथा । कया हेतुभूतया, विश्वदृश्वनः सर्वज्ञस्य आज्ञा शासनमनुलंध्य तया 'नान्यथा वादिनो जिना ' इति दृढतमप्रतिपत्त्येत्यर्थः । एतेन निश्चयसम्यग्दर्शनभाग्भवन्नित्युक्तं वेदितव्यम् । पुनः किविशिष्टः सन् , आत्मनिन्दादिमान् धिग्मामेवं प्रदीपहस्तमप्यन्धकूपे पतन्तमित्यात्मानं निन्दयन् , भावन्कथमस्मै दुर्गतिदुःखाय घटिष्यते एवमुत्पथचारी जनोऽयमिति गुरुसाक्षिकं गर्हमाणश्च । नन्वेवंभूतो भवन्नपि कुतोऽक्षसुखं सेवते, कुतश्च तदर्थ भूतग्राम पीडयतीत्याह-भरेखादिसदृक्पायवशगो यतः, भूरेखादिभिः पृथ्वीभेदादिभिः सदृशास्तुल्याः कषायाः भूरेखादिसदृक्षायाः, दृषदवनीत्यादिसूत्रोक्तलक्षणा अप्रत्याख्यानावरणादयो द्वादश क्रोधादिविकल्पाः तेषां वशः पारतंत्र्यं तं गच्छतीति तद्गश्चरित्रमोहोदयपरतंत्रः सन्नित्यर्थः । क इव, चौर इव तस्करो यथा । किं विशिष्टः, धृतो रुद्धः
१ न दुःखबीजं शुभदर्शनक्षितौ कदाचन क्षिप्रमपि प्ररोहति ।
सदाप्यनुप्तं सुखबीजमुत्तमं कुदर्शने तद्विपरीतमिष्यते ॥ २ णो इंदिएसु विरदो णो जीवे थावरे तसे वापि ।
जो सद्दहदि जिणुत्तं संमाइठी अविरदो सो ॥