________________
२२३३ मध्यमस्यागादरहस्ये खण्डः २ . का.५ * रत्नाकरावतारिकासंवादः * शाब्दे इच्छाया अनियामकत्वं तु दुर्बलयुक्तिकम् ।
सप्तमीविनिर्मुक्तशब्दमात्रस्याऽबोधकत्वं तु न वाच्यम्, 'विधिप्रतिषेधाभ्यां स्वार्थमभिदधान' इत्यनेनार्पणाविशेषस्थल एव तदनुवर्तनाभिधानात् ।
--- = = * जयलता --- ननु सप्तभङ्गी च शब्दविशेषसमूहात्मिका, शब्दश्च व्याकरणको शादिदर्शितसङ्केतानुसारेणेवाऽर्थ बोधयति. न तु यथाकथञ्चित्रिच्छानुसारेण, शाब्दबोधस्य शब्दानुल्लिखितार्धानवगाहित्वादित्याशङ्कायामाह- शाब्द इति । शब्दजन्यबोधे । इच्छायाः = शब्दानुपस्थापिताबुभोधयिषायाः, अनियामकत्वं = अकारणत्वम्, इति कस्यचित् परस्य वचनं तु दुर्बलयुक्तिकम् । अयं भावः शब्दे द्विविधार्थप्रतिपादनशक्तिः स्वाभाविकी संकेतरूपा च । स्वाभाविकं सहज सामर्थ्य योग्यता परपर्याय, ज्ञानस्य ज्ञेयज्ञापनदाक्तिवन । सङ्केतश्च 'इदमस्य वाच्यमिदञ्चाऽस्य वाचकमित्येवंरूपः वाच्यवाचकयोर्विनियोगः । स यस्य पुरुषादेरस्ति । तं प्रत्येक शब्दस्याऽधंबोधकत्वम् ।
सङ्केते क्वचिद् व्याकरणको दशादिकं नियामकं क्वचिच्च बकुरिच्छाऽपि. कथमन्यथा कोकणादिदेशे पिचादिपदात्ययःप्रभृत्यर्थबोध: स्यात् ? न च स भ्रमात्मक इति वाच्यम्, अस्वलत्प्रतीतेः । न च तत्र शक्त्यभावा-देवाऽबोधकत्वमिति शङ्कनीयम्, तत्रापि शक्तेः महता प्रबन्धेनाऽस्माभिः 'मोक्षरत्नायां अपभ्रंशशब्दशास्त्यनङ्गीकर्तृमतचर्वणपूर्वक व्यवस्थापितत्वात् ।
वस्तुतस्तु प्रकृते स्यात्पदस्य प्रयोगादेव न कश्चिद्दोषः । तदादिपदवत् स्याछब्दस्य स्वातन्त्र्येण बुद्धिविषयतावच्छेदकावच्छिन्नेऽपि शक्तिः, तद्बोधकताया वैचित्र्यादिति किं नश्चिन्त्रम् ? अस्माकं स्याद्वादिनां नित्यानित्यायनेकान्तक्रोडीकरणं विना व्यवहारमात्रस्याऽयोगाच्छब्दत्वावच्छेदेन नित्याऽनित्याद्यनेकान्तात्मक एव शक्तिग्रहात् आद्यन्युत्पत्त्यनुरोधेन जीवादिपदस्यापि नित्यानित्याद्यनेकान्तात्मकजीवाद्यर्थ एव शक्तिर्गृह्यते इत्यानुभाविका शक्तिः । तथाऽनुभवजननेऽनेकान्तवाचकस्यादादिपदापेक्षणात् केवलजीवादिपदाजीवाद्यर्थोपस्थितिमात्रम, अनेकान्तात्मकजीवाद्यानुभवस्तु स्यात्पदसंयोगादिति सर्वं चतुरस्रम् ।
नन्येवं सप्तभङ्गीबाह्यशब्दानामर्थबोधजनकत्वं न स्यादित्याशङ्कायामाह - सप्तभङ्गी विनिर्मुक्तशब्दमात्रस्य = सप्तभङ्गीबहिर्भूतशब्दत्वावच्छिन्नस्य, अबोधकत्त्वं = शाब्दबोधाऽजनकत्वं, तु न बाच्यम् । हेतुमाह - विधीति । संपूर्ण सूत्रं त्वेवम् । "सर्वत्राऽयं ध्वनिर्विधिप्रतिषेधाभ्यां स्वार्थमभिदधानः सप्तभङ्गीमनुगच्छति'' (प्र.न.त.परि.४/सू.१३)
यद्यपि रत्नाकरावतारिकायां तद्विवरणश्चैवम् -> इह यथैवान्तर्बहिर्वा भावराशिः स्वरूपमाबिभर्ति तथैव तं शब्देन प्रकाशयतां प्रयोक्तृणां प्रावीण्यमुपजायते । तं च तथाभूतं सप्तमङ्गीसमनुगत एव शब्दः प्रतिपादयितुं पटीयानित्याहुः विधीति । सदसन्नित्यानित्यादिसकलैकान्त-पक्षविलक्षणानेकान्तात्मके वस्तुनि विधिनिषेधविकल्पाभ्यां प्रवर्तमानः शब्दः सप्तभङ्गीमङ्गीकुर्वाण एव प्रवर्तत इति भावः <- (रत्ना. अव.५/१३) इति तथापि विधिप्रतिषेधाभ्यामिति विशेषणोपादानेन ताभ्यां विनिर्मुक्तस्य शब्दस्य सामान्यतः स्वार्थबोधकत्वमव्याहतमेव । सुस्पष्टश्च सप्तभङ्गीबाह्यशब्दानां वाचकत्वं "अर्थप्रकाशकत्वमस्य स्वाभाविकं प्रदीपवद् यथार्थायधार्थत्वे पुनः पुरुषगुणदोषावनुसरतः" (प्र.न.त. ४/१२) इति प्रमाणनयतत्त्वालोकालङ्कारसूत्रे तद्व्याख्यायाञ्च । ततो युक्तमुक्त अर्पणाविशेपस्थल एव तदनुवर्तनाभिधानादिति ।
कि सामान्यतः इच्छा शाब्दबोध के प्रति कारण न होने पर भी यहाँ अन्वय-व्यतिरेक से उसमें शाब्दबोधकारणता का प्रत्यक्ष से अनुभव होने की वजह इसका अपलाप नहीं किया जा सकता। प्रत्यक्ष सबसे बलवान् प्रमाण है। अतः प्रत्यक्ष के अनुसार । ही नियम की कल्पना करनी चाहिए । जहाँ भी प्रत्यक्ष का विरोध आदि उपस्थित हो वहाँ नियम में भी संकोच करना आवश्यक होता है । यह तो सब विद्वान् पुरुषों को मान्य है। अतः सप्तभंगी स्थल के अनुरोध से अर्पणारूप इच्छाविशेष में शाब्दबोध की कारणता का स्वीकार करना ठीक ही है। मगर इसका अर्थ यह तो नहीं है कि . 'सप्तभंगी से अतिरिक्त शब्दमात्र (सब शब्द) अर्थ का बोधक नहीं होगा',. क्योंकि प्रमाणनयतवालोकालंकार के चतुर्थ परिच्छेद के १३ वें सूत्र में कहा गया है कि - 'सर्वत्र शन्द विधि-प्रतिषेध के द्वारा स्वार्थ (अपने अर्थ) को कहता हुआ सप्तभंगी में प्रवृत्त होता है। इस सूत्र में ऐसा नहीं कहा है कि शब्द अपने अर्थ का बोध कराता हुआ सप्तभंगी में प्रवृत्त होता है, मगर 'विधि-प्रतिषेध के द्वारा ऐसा कहा है। इससे सिद्ध होता है कि अर्पणाविशेषस्थल में ही शान्दवोध के प्रति इच्छा के अनुसरण का विधान १. देखिये दिश्यदर्शनट्रस्ट प्रकाशित भाषारहस्यप्रकरण - पृ.८८