Book Title: Syadvadarahasya Part 2
Author(s): Yashovijay Upadhyay, 
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 360
________________ 8 मध्यमस्याद्वादरहस्ये सण्डः २ । यत्तु - स्वाश्रयवोध्यतावच्छेदकत्वसम्बन्धेनैकवृत्तिमत्त्वं तद्बोध्यत्वं, तेन न पशुत्वादेर्नानात्वेऽपि दोष इति न्यायनयानुयायिनः, तन्न, सर्वस्य सर्वपदशक्यत्वात । न चैवं लक्षणाच्छेदः, साक्षात्संकेतासंभवे तदवकाशात । न च घटत्व-पटल्या गौरवं, प्रमेयत्वादिनैव तत्कल्पनात्तत्तद्धर्मेण बोधस्य संकेतविशेपनियम्यत्वात् । न चैवं शक्तिरन्तरिति वाच्यं, वाचकताप्रतिनियमस्य तया विनाऽनुपपत्तेरित्याकरे स्पष्टत्वात् । कालाष्टकस्वरूपं च श्रीपूज्यलेखादबसेयमिति दिग्मात्रमेतत् । तस्वित्रत्याः अस्मत्कृतसप्तभंगीतरंगणीतोऽवसेयाः ।। ___ ननु भवतु कदाचिदन्यस्य वस्तुनो नित्यानित्यत्वं, प्रदीपादेस्तु सर्वथाऽनित्यत्वमेवोचितमिति चेत् ? न, प्रदीपादिपुद्गलानामेव तमस्त्वेन परिणमनाद्रव्यत्वेनाऽनाशात् । अथैवं तमसो द्रव्यत्वं स्यादिति चेत् ? स्यादेव । तेजसः किल निवृत्तिरूपता, यान्धकारनिकरे परोदिता । द्रव्यतां वयममी समीक्षिणस्तत्र पत्रमवलम्ब्य तन्महे ।। तत्र तमसो द्रव्यत्वे रूपबत्त्वमेव मानम् । न च तदेवासिद्धं, तमो नीलमिति प्रतीतेः सार्वजनीनत्वात् । न चोद्भूतरूपवत्त्वमुद्भूतस्पर्शव्याप्यं, इन्द्रनीलप्रभासहचरितनीलभागस्तु स्मर्यमाणनीलारोपेणव निर्वाहात् गौरवात् न कल्प्यते इति न तत्र व्यभिचारः, कुंकुमादिपूरितस्फटिकभांडे बहिरारोप्यमाणपीताश्रयेऽपि न व्यभिचारस्तत्रापि स्मर्यमाणारोपेणेव निर्वाहाबहिर्गन्धोपलब्धेस्तु वाय्याकृष्टानुद्भूतरूपभागान्तरेणैवोपपनेरिति वान्यं, तादृशव्याप्ती मानाऽभावात्, प्रभायां व्यभिचारात् । न च नीलरूपवत्त्वमेवोद्भूतस्पर्शव्याप्यं, त्रसरेणी व्यभिचारात् । न च पाटितपटसूक्ष्मावयववत्तत्राप्युद्भूतस्पर्शवत्त्वानुमानं, अनुभूतरूपस्योद्भूतरूपजनकताया इवाऽनुद्भूतस्पर्शस्याऽपि निमित्तभेदसंसर्गेणोद्भूतस्पर्शजनकतासम्भवादृष्टान्ताऽसंप्रतिपत्तेः । जन्यानुभूतरूपं प्रत्यनुभूतेतररूपाऽभावस्य कारणत्वपक्षे तप्ततैलस्थादनुद्भूतरूपाबनेरुद्भूतरूपभागांतराकर्पणेनैवोद्भूतरूपोत्पत्तिस्वीकारादत्र दृष्टान्ताऽसम्प्रतिपत्तिरिति चेत् ? न, तथापि त्रसरेणोरुद्भूतस्पर्शवत्त्वे तत्स्पार्शनप्रसङ्गात् । द्रच्यान्यद्रव्यसमवेतस्पार्शनजनकतावच्छेदकी. भूतप्रकर्षवन्महत्त्वाऽभावान्नायं दोष इति चेत् ? न, तादृशप्रकर्षस्यैकत्वेऽपि कल्पयितुं शक्यत्वेन विनिगमनाविरहात् । अथैकत्वे तादृशजातिकल्पने स्वतन्त्रमतसिद्धद्रव्यवाक्षुषजनकतावच्छेदकीभूतैकत्वनिजात्या सांकर्यमेव विनिगमकमिति चेत् ? तथापि सा | जातिमहत्त्चे कल्यतामियं त्वेकत्व इत्यत्रैव विनिगमकमन्वेपणीयम् । अथ द्रव्यचाक्षुषजनकतावच्छेदकैकत्वनिष्ठजातिव्याप्येव द्रव्यान्यद्रव्यसमवेतस्पार्शनजनकतावच्छेदकजातिरभ्युपेयता, बायोरचाक्षुपत्वं तु विषयविधयाऽकारणत्वादिति चेत् ? तर्हि एवमेव त्रुटिस्पर्शाऽस्पार्शनस्याप्युपपत्तेद्रव्यचाक्षुषजनकतावच्छेदकैकत्वनिष्ठजातेद्रव्यान्यद्रव्यसमवेतस्पार्शनजनकतावच्छेदकजातिव्याप्यत्वे विनिगमकाऽभावः, विषयस्य तत्तद्वयक्तित्वेन कारणतायां माना:भावश्च । यत्तु त्वक्संयुक्तत्वाचवत्समचायत्वेन प्रत्यासत्तित्वान्न त्रुटिस्पर्शस्पार्शनमिति तन्न, आश्रयत्वाचस्य नियमतः पूर्वमभावेन त्वाचवत्त्वस्य विशेषणत्वाऽयोगादुपलक्षणत्वे घटायुत्पत्तिद्वितीयक्षणे स्पर्शादिस्पार्शनाऽपत्तेः कालभेदेनेकस्यामेव ब्यक्तावनंतत्वाचानां सम्भवेन तावत्त्वाचप्रवेशाऽपेक्षया महत्त्वोद्भूतस्पर्शयोरेप प्रत्यासत्तिमध्ये प्रवेशस्य त्रुटिस्पर्शेऽनुद्भूतत्वकल्पनस्य चोचितत्वात्, चायोरत्वाचेन तवृत्तिस्पर्शत्वाचानुपपत्तेश्चेत्यधिकमन्यत्र । 'तमस्युद्भूतस्पर्शवत्त्वमपि प्रतीतिसिद्धमेबेति' तु प्राञ्चः । अथाऽऽलोकाभावेनैव तमोव्यवहारोपपत्तेर्न तस्य द्रव्यत्वकल्पनमिति चेत् १ विपरीतमेव किं न रोचयेः ? आलोकस्य चाक्षुषजनकसंयोगाश्रयत्वेन क्लृप्तत्वान्नेवमिति चेत् १ न, चक्षुखाप्यकारितावादिनामस्माकं तम:संयुक्तचाक्षुपं प्रति योग्यताविशेषकारणत्वस्येवेष्टत्वात् । न च तादृशयोग्यतां विनाऽपि किश्चिदंशेन तमःसंयुक्तद्रव्यग्रहान्यभिचार इति बान्यम्, मन्दतमःसंयुक्तांशग्रहे तादृशयोग्यताया अवश्याऽपेक्षणात् । अंशांशिनोः कथंचिद्भेदस्य च प्रत्यक्षसिद्धत्वात् । न च तस्मिन्नेवांशे! नयनपराङ्मुखतमःशालिन्यपि प्रत्यक्षोदयाद्मलोकसंयोगावच्छेदकावछिन्नचक्षुःसंयोगस्यैव द्रव्यचाक्षुपे हेतुत्वमुचितमिति वाच्यम्, घकादिचाक्षुषानुरोधेन चक्षुरुन्मुखतमःसंयोगवच्चाक्षुपं प्रति योग्यताविशेषहेतुत्वस्यैवाऽवश्यमाश्रयणीयत्वात् । आलोकाऽजन्यद्रव्यचाक्षुपं प्रत्येवेतस्य हेतुत्वमस्त्विति तु नाभिधानीयं, आलोकजन्यतावच्छेदकनियतरूपस्यैवापरिचयात् । आलोकासंयुक्तचाक्षुषं प्रति तस्य हेतुत्वमित्यपि न वक्तुं युक्तम्, महदुद्भूतरूपवत्तन्निवेशे गोरवादन्यथा स्फुटदोषात् । अधिकमन्यत्र प्रपञ्चितमस्माभिः इति श्रेयः । परेण हि चक्षुःसंयोगावच्छेदकावच्छिन्नमहद्भुताऽनभिभूतरूपवदालोकसंयोगत्वेन द्रन्यचाक्षुषत्वावच्छिन्नं प्रति कारणता वक्तव्या । सा च न सम्भवति आलोकसंयोगस्याप्यवच्छेदकत्वसम्भवे विनिगमनाविरहात् । एतेन स्वावच्छेदकावच्छिन्नचक्षुःप्रतियोगिकसंयोगसम्बन्धेन तस्य कारणताsपि प्रत्याख्याता । अथ द्रव्यनिष्ठलौकिकविपयितासम्बन्धेन चाक्षुषत्वावच्छिन्नं प्रति पर्यवसन्त्यास्तस्याः कारणताया अपेक्षया लाघवात् समवायेन तमोभित्रीयलौकिकविषयतावच्चाक्षुषं प्रत्यालोकसंयोगस्य स्वावच्छेदकावच्छिन्नसंयोगवचक्षुःसंयुक्तमनःप्रतियोगिकविजातीयसंयोगसम्बन्धेन कारणता कल्प्यते । चक्षुःसंयोगस्य स्वावच्छेदकावच्छिन्नालोकसंयोगावच्छेदकावच्छिन्नस्ववच्चक्षुःसंयुक्तेत्यादिसम्बन्धेन कारणतायां गौरवमेव विनिगमकमिति चेत् ? न, तथापि

Loading...

Page Navigation
1 ... 358 359 360 361 362 363 364 365 366 367 368 369 370