Book Title: Syadvadarahasya Part 2
Author(s): Yashovijay Upadhyay,
Publisher: Divya Darshan Trust
View full book text
________________
* लघुस्याद्वादरहस्य
17
किंच शरीरस्यात्मत्वेऽहमात्मेतिवदहं शरीरमिति प्रत्ययोऽपि प्रमा स्यात्, न स्याच्चाहमात्मवानितिवदहं शरीरवानित्यपि । 'अपि च :- एगे आया इत्याद्यागमोऽप्यात्मानमुद्योतयतीति । स चायं “चैतन्यस्वरूपः परिणामी कर्ता साक्षाद्भोक्ता स्वदेहपरिमाणः प्रतिक्षेत्रं भिन्नः पोहलिकादृष्टवांश्चेति” "सूत्रम् । इत्थञ्चात्मन: सिद्धौ तसिद्ध्यधीनौ परलोकमोक्षावपि सिद्धावेव । ननु | मोक्षश्चेदशेषविशेषगुणोच्छेदरूपस्तर्हि तत्र कस्यापि प्रवृत्तिर्न स्यात्, विशेषगुणोच्छेदत्वस्याऽनिष्टतावच्छेदकत्वात् । अथ दुःखध्वंसत्वमेव काम्यतावच्छेदकमिति चेत् ? न समनियताभावानामैकत्वेन तदानींतनसुखदुःखध्वंसयोरे क्याद्दुः खध्वंसे सुखध्वंसत्वरूपाऽनिष्टतावच्छेदकज्ञानस्य प्रवृत्तिप्रतिबन्धकत्वात् । अथ नित्यनिरतिशय सुखाभिव्यक्तिरूपः स इति चेत् न तादृशसुखे मानाभावादिति चेत् ? अत्राहुः - ' कृत्स्नकर्मक्षय एव मोक्ष:' । स च सूक्ष्मर्जुसूत्रनयाऽर्पणया नित्यसुखाभिव्यक्तिक्षणस्वरूपो, व्यवहारनयार्पणया नित्यसुखस्वरूपः, प्रमाणार्पणया तु द्रव्यपर्यायोभयस्वरूप इति दिग् । काम्यतावच्छेदकं तु विजातीय सुखत्व- । मेव । न च नित्यसुखे प्रमाणाभाव:, आगमस्यैव मानत्वात् । न च सुखत्वावच्छेदेन शरीरादीनां कारणत्वात्तादृशं सुखं कथमिति वाच्यं एवं सति परेषामीश्वरादी नित्यज्ञानादिकमपि न सिध्येत्, ज्ञानत्वायवच्छेदेनात्ममनोयोगादीनां कारणत्वावधारणात् । | प्रमाणान्तरान्नित्यज्ञानादिसिद्धी कार्यतावच्छेदकसंकोचस्त्वन्यत्रापि तुल्य इति दिग् ।
मीमांसकास्तु प्रायशोऽनेकान्तवादस्वयमेव न
दिन शुभ संमत्यनुक्त्या न्यूनत्वमिति ध्येयम् ॥ ११॥ इत्थमनेकान्तवादं परेषामपि संमत्या प्रमाणयित्वा संप्रति वस्तुस्वरूपमाहुः " तेनेति” तेनोत्पादव्ययस्थैमसंभिनं गोरसादिवत् ।
त्वदुप कृतधियः प्रपन्ना वस्तु वस्तुसत् ||१२||
तेन प्रागुक्तयुक्त्पर परेषामपि संमत्या च कृतधियः सत्परीक्षादक्षाः त्वदुपज्ञं = त्वदंगीकृतमेव वस्तुसत् पारमार्थिक ||वस्तु प्रपन्नाः = अंगीकृतवन्तः । कीदृशं वस्तु ? उत्पादव्यवप्रीव्यसंभिन्नमेतत्त्रितयस्वभावमित्यर्थः । अयं भावः - द्रव्यस्योत्पादोच्छेदध्रीच्यैक्यपरिणामः स्वभावस्तथा च पारमर्षं " उपने वा, विंगमेइ वा, धुबेड़ व" त्ति यथैव हि द्रव्यवास्तुनः साम. स्त्येनैकस्यापि विष्कंभक्रमप्रवृत्तिवर्त्तिनः सूक्ष्मांशाः प्रदेशास्तथैव हि द्रव्यवृत्तेः सामस्त्येनैकस्या अपि प्रवाहक्रमप्रवृत्तिवर्त्तिनः | सूक्ष्मांशाः परिणामाः । यथा च प्रदेशानां परस्परव्यतिरेकनिबन्धनो विष्कंभक्रमः तथा परिणामानां परस्परव्यतिरेकनिबंधनः प्रवाहक्रमोऽपि यथैव च ते प्रदेशाः स्वस्थाने स्वरूपपूर्वरूपाभ्यामुत्पन्नोच्छन्नत्वात्सर्वत्र परस्परानुस्यूतिसूत्रितैकवास्तुतयानुत्पन्न - प्रलीनत्वाचोत्पत्तिव्ययश्रीव्यत्रितयात्मकमात्मानं विभ्रति तथैव ते परिणामाः स्वावसरे स्वरूपपूर्वरूपाभ्यामुत्पत्रोच्छनत्वात्सर्वत्र परस्परानुस्यूति सूत्रितैकप्रवाहतयाऽनुत्पन्नप्रलीनत्वाच्चोत्पत्तित्र्ययध्रौव्यत्रितयात्मकमात्मानं विभ्रति । यथैव च य एवं पूर्वप्रदेशोच्छेदनात्मको वास्तुसीमान्तः स एव हि तदुत्तरोत्पादात्मकः स एव च परस्परानुस्यूतिसूत्रितकवास्तुतया तदुभयात्मक इति तथैवात्रापि य एवं पूर्वपरिणामोच्छेदनात्मको वृत्तिसीमान्तः, स एव तदुत्तरोत्पादात्मक:, स एव च परस्परानुस्यूति सूत्रितैकवृत्तितया तदुभयात्मक इति । दृष्टान्तोऽत्र मुक्तादाम । यथा दीर्घे लम्बे मुक्तादामनि सर्वेष्वपि स्वधामसूत्रकसत्सु मुक्ताफलेषु उत्तरोत्तरेषु। धामसूत्तरोत्तरमुक्ताफलानामुदयनात् पूर्वेषां पूर्वेषां चानुदयनात् सर्वत्राऽपि परस्परानुस्यूति सूत्रक सूत्रस्थावस्थानाच त्रैलक्षण्यं प्रसिद्ध तथान्त्रापि ध्येयमिति ।
=
=
अत्र निश्चयतः प्रदेशादीनामुत्पत्तिनाशसंभवेऽपि व्यवहारतः परिणामानामेव तौ । यदवच्छेदेन च श्रीव्यं तदवच्छेदेन तु नोत्पत्तिनाश, अन्यथा संकरापत्तेः । उत्पादव्यययोः द्रव्यत्वं तु स्वाबलंबितपर्यांयालंबनत्वाद्बोध्यम् । उत्पाद-स्थिति-भंगाश्व न परस्परं सर्वथा भिन्ना: कुंभसर्ग - मृत्पिण्डसंहार - मृत्तिकास्थितीनामैक्येनैवानुभवनात् । द्रव्यस्य स्थितिकाल एव च पर्यायाणामुत्पत्तिनाशसंभवान क्षणभेदोऽपीति परमसमयामृतास्वादोद्गारः । इत्थं च सर्वेषां द्रव्याणामेकस्वभावत्वेऽप्ययं कश्चिद्विशेषो यदिह पुद्गलजीवद्रव्य एव परपरिणामाद्वैचित्र्यमनुभवतः । भवन्ति हि यथा परमाणवः स्निग्धरुक्षत्वादिविशेषेण परस्परमेकीभवंतो द्र्णु| कत्र्यणुकादिसमानजातीयद्रव्यपर्यायभाजो रागद्वेषादिप्रवृत्तिपारतंत्र्येणात्मानश्वासमानजातीयद्रव्यपर्यायभाज इति न ह्येवमाकाशादय इति दिग् ।
नन्वेकस्मिन् समये विरुद्धोत्पत्त्यादिधर्म समावेशः कथमित्याशंकायां दृष्टान्तमाहुः गोरसादिवदिति । यथाहि गोरसे स्थायिनि पूर्व दुग्धपरिणामविनाशोत्तरदधिपरिणामोत्पादौ प्रत्यक्षप्रमाणसिद्धत्वान्न विरुद्धी, तदुक्तं ""पयोव्रती न दध्यत्ती "त्यादि, तथेहापि द्रव्ये सर्वदा स्थायिनि पूर्वपरिणामोच्छेदोत्तरपरिणामोत्पादी प्रतीतिबलादेव न विरुद्धाविति भाव इति श्रेयः श्रीः ||१२||
(अथ ग्रन्थकारप्रशस्त्यादि ) - स्थाद्भादोपनिपनिषण्णविलसद्युक्तिप्रचारेऽपि या व्युत्पत्त्यै दधिरेऽत्र कावन महत्नैयायिक
१. स्थानांगसूत्रं प्रथमम् । २. प्रमाणनयतत्त्वायेक परि० (७) सू० (५६) । ३. योती न दध्यत्ति, न प्रयोऽत्ति विव्रतः । अगोरसव्रतो नोभे, तस्मात्तत्वं त्रयात्मकम् । शास्त्रवातसमुचय र ७ ली श

Page Navigation
1 ... 367 368 369 370