Book Title: Syadvadarahasya Part 2
Author(s): Yashovijay Upadhyay, 
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 368
________________ 16 मध्यमस्याद्वादरहस्ये खण्डः २ * लघुस्याद्वादरहस्य यत्त्वप्रामाण्यज्ञानाभावस्य पृथक्कारणत्वान्नायं दोष इति तन्न तत्तद्व्यक्तित्वेनाप्रामाण्यग्रहाभावानां तत्तदप्रामाण्यग्रहाभाव| विशिष्टधूमादिलिङ्गकानुमितिं प्रति हेतुत्वकल्पनापेक्षया सामानाधिकरण्यविशिष्टविशेष्यतासंबंधावच्छिन्नप्रतियोगिताकाप्रामाण्यग्रहा| भावानामवच्छेदकत्वकल्पनौचित्यात् । यत्तु 'वह्निमनुमिनोमी' त्यनुव्यवसायेनानुमितित्वसिद्धिरिति तत्र तत्र विधेयताविशेषस्यैव विषयत्वात् । अन्यथा पर्वतमनुमिनीमीत्यपि स्यात् । परामर्शजन्यतावच्छेदकतायामपि स एव प्रवेश्यतामिति चेत् । न तदीयसंबंधोपेक्षयाऽनुमितित्वीयसंबंधस्य समवायरूपस्य कार्यतावच्छेदकत्वे लाघवात् । ननु तथापि अनुमितित्वस्य मानसत्वव्याप्यत्वमेवेति प्रागंगीकृतम् । न चानुमितेः साक्षात्कारत्वे 'वहिं न साक्षात्कारो - मीति प्रतीतिः कथमिति वाच्यं तत्र लौकिकविषयतया साक्षात्काराभावादेव गुरुत्वादाविव तदुपपतेः । अत एव लौकिकविषयतावत्येव साक्षात्करोमीति प्रतीत्युत्पत्तेः 'पीतं शंखं साक्षात्करोमी' त्यादिप्रतीतिबलाद्दोषविशेषजन्यतयापि लौकिकचिपयतां कल्पयन्ति ग्रान्थिकाः । युक्तं चैतत् चाक्षुपादिसामग्रीसत्त्वे मानसत्वरूपव्यापकधर्मावच्छिन्न सामग्रयभावादेवानुमित्यनुदयोत्पत्ती अनुमितित्वादेस्तत्प्रतिबध्यतावच्छेदकत्वाऽकल्पनेन लाघवात् । अथानुमित्साद्युतेजकभेदेन विभिन्नरूपेण प्रतिबध्यप्रतिबन्धकभाव आवश्यक इति चेत् ? न तत्तदिच्छानंतरोपजायमानभिन्नमानसे जातिविशेषं स्वीकृत्य तदवच्छिन्नं प्रति मानसान्यसामग्रचाः प्रतिबन्धकत्वकल्पनादनुमितित्वादेर्मानसवृत्तित्वकल्पनीचित्यात् । अथ तत्तदिच्छाविरहकाले उत्तदिच्छानंतशेपजायमानमानसापत्तिरिति चेत् ? न तादृशमानसं प्रति तत्तदिच्छानां | हेतुत्वात् । न चैवं गौरवं फलमुखत्वात् । अथ सुस्मूर्षानंतरोपजायमानभिन्नज्ञाने जातिविशेषं स्वीकृत्य तदवच्छेदेन चाक्षुपादिसामग्र्याः प्रतिबन्धकत्वेऽनुमितित्वादेः परोक्षवृत्तित्वमेवास्तु इति चेत् १ न तदवच्छेदेन स्मृत्यन्यज्ञानसामग्रथा एवं प्रतिबन्धकत्वात् तज्जातिविशेषस्य स्मृतित्त्वव्याप्यस्यैव युक्तत्वात् । तज्जातिवदन्यज्ञानसामग्रीत्यादिना प्रतिबन्धकत्वेऽपि विशेषणतावच्छेदकप्रकारकज्ञानजन्यतावच्छेदकतया सिद्धस्य 'प्रत्यक्षस्यैवानुमितो युक्तत्वात् इति चेत् ? अत्र वदन्ति तदानीं वह्निमानसस्वीकारे लिङ्गादीनामपि मानसाऽऽपत्तिः । न चाऽऽचार्यमत इव तत्र तज्ञानमात्रे इष्टापत्तिः | एवमप्युच्छृंखलोपस्थितानां घटादीनां तत्र भानाssपत्तेः । न च तद्धर्मिकतत्संसर्गकतत्तद्धर्मावच्छिन्नव्याप्यवनाज्ञानात्मकपरामर्शादिरूपविशेष सामग्री विरहात् न तदापत्तिरिति वाच्यं सामान्य सामग्रीवशात्तदापत्तेः । न च घटमानसत्वस्य परामर्शादिप्रतिबध्यताबच्छेदकतया न तदापत्तिः, पटमानसत्वादेरप्युच्छृंखलोपस्थितपटादिभानवारणाय तत्प्रतिबध्यावच्छेदकत्वेऽनंतप्रतिबध्यप्रतिबन्धक| भावकल्पनाऽऽपत्तेः । अथ भोगपरामर्शजन्यभिन्नज्ञाने जातिविशेषं स्वीकृत्य तदवच्छिन्नमानसं प्रति तज्जातीयान्यज्ञानसामग्र्याः प्रतिबन्धकत्यान तदानीं वल्लीतरज्ञानाssपत्तिरिति चेत् ? न मानसत्वस्यैव तत्प्रतिबध्यतावच्छेदकत्वौचित्यात् । न चैवं अनुमितिसामग्रीसत्यां भोगोऽपि कथं भवेदिति वाच्यं भोगान्यज्ञानप्रतिबंधकतावच्छेदकतया समानीतजातिविशेषवतां सुखदुःखानामुत्तेजकत्वात् । न च तादृशसुखदुःखकालेऽनुमितिसामग्रीभूतपरामर्शादी समवायेन तदभावादनुमित्यापत्तिः, सामानाधिकरण्य- कालिकोभयसंबंधावच्छिन्नतदभावस्य निवेशात् । 7 अत्रेदं चिन्त्यम् - अनुमितिसामग्र्या मानसं प्रति प्रतिबंधकत्वस्य तत्तदिच्छारूपोत्तेजकभेदेन विशिष्य विश्रान्त्यानुमितेर्मानसत्व एक वलयादिधर्मिकमानसं प्रत्यप्रतिबंधकत्वकल्पनया लाघवम्, तत्तदिच्छोपजायमानभिने प्रतिबध्यतावच्छेदकजातिस्वीकारस्तु परामर्शजन्यभिन्नेऽपि स्वीकर्तुं शक्यते इति न वलवाद्यनुमितिसामग्रीकाले उच्छृंखलोपस्थितघटादिभानवारणाय मानसत्वस्प तत्तत्प्रतिबध्यतावच्छेदकत्वकल्पनौचित्येनानुमितेरप्रत्यक्षत्वाभिधानं युक्तमिति 1 प्राश्वस्तु उपनीतभानस्थले विशेषणज्ञानविशिष्टबुद्धयोः कार्यकारणभावेनैवास्माकं चरितार्थता । अनुमितेर्मानसत्वव्याप्य तावादे तु पक्षादर्मुख्यविशेष्यत्तयैव भानान्नानेन गतार्थता, इत्यतिरिक्तकार्यकारणभावकल्पने गौरवमित्याहुरिति दिग् । सिध्यतु वा यथाकथंचित् मनः अनुमानेन, तथापि यत्संयोगव्यतिरेकात् सुषुप्तिकाले कार्यानुत्पादस्तस्यैव मनस्त्वात्तस्य भौतिकात् पृथिवीत्वजत्वादी विनिगमनाविरहात्, नव्यनये पृथिव्यादेरपि रूपवत्त्वाभावेन वायुत्वेऽपि विनिगमनाविरहादतिरेकसिद्ध्या भूतचतुष्टयमात्रस्य पदार्थत्वप्रतिज्ञासंन्यासात् । न चात्मनः शरीरानतिरेके संयोगादेः पृथक् प्रत्यासत्तित्वाकल्पन| लाघवमपि परमाणी पृथिवीत्वादिग्रहवारणाय महत्त्वोद्भूतरूपयोः प्रत्यासत्तिमध्येऽवश्यं निवेश्यत्वेन त्रुटिग्रहार्थं तत्स्वीकारात्, | इत्यन्यत्र विस्तरः । * उदयनाचार्यमत इव

Loading...

Page Navigation
1 ... 366 367 368 369 370