Book Title: Syadvadarahasya Part 2
Author(s): Yashovijay Upadhyay,
Publisher: Divya Darshan Trust
View full book text
________________
* लघुस्याद्वादरहस्य *
( चार्वाकमतपूर्वपक्ष: )
-
ते हीत्थं ब्रुवते न खलु निखिलेऽपि संसारे भूतचतुष्टयाऽतिरिक्तं किमप्यात्मादि वस्तु विद्यते, अनुपलब्धेः । किन्तु | कायाकारपरिणतं भूतचतुष्टयमेव चैतन्यमाविभर्त्ति । न च प्रत्येकमचेतनानां समुदायेऽपि कथं चैतन्यमिति वाच्यं मदव्यक्तिवदु| पपत्तेः । नव्यचावकास्तु अवच्छेदकतया ज्ञानादिकं प्रति तादात्म्येन कल्प्यकारणताकस्य शरीरस्यैव समवायेन ज्ञानादिकं प्रति हेतुत्वकल्पनमुचितम् । न चैवं आत्मत्वं जातिर्न स्यात् पृथिवीत्वादिना सांकर्यात् इति वाच्यम्, उपाधिसांकर्यस्येव जातिसांकर्यस्याप्यदोषत्वात् । न चैवं परात्मन इव तत्समवेतज्ञानादीनामपि चाक्षुपस्पार्शने स्यातामिति वाच्यम्, रूपादिषु जातिविशेषमभ्युपगम्य रूपान्यतद्रत्त्वेन चाक्षुषं प्रति स्पर्शान्यतत्त्वेन च स्पार्शनं प्रति प्रतिबन्धकत्वकल्पनात् । इत्थमेव रसादीनामचाक्षुषास्पार्शनत्वनिर्वाहातू । अथैवं स्वज्ञानादेरपि प्रत्यक्षं कथमिति चेत् ? मनसैवेत्यवेहि । मन: सिद्धावेव किं मानमिति चेत् ? अनुमानमेव । न चानुमानोपगमेऽपसिद्धांतः, अनुमितित्वस्य मानसत्वव्याप्यत्वाभ्युपगमात् । आत्मन: शरीरानतिरेके संयोगस्य पृथक् प्रत्यासत्तित्त्वाऽकल्पनेन लाघवमपि ।
.
अथ द्र्यणुक - परमाणुरूपाद्यप्रत्यक्षाय चक्षुः संयुक्तमनुद्भूतरूपवत्समवायत्वादिना प्रत्यासत्तित्वे त्रुटिग्रहार्थं संयोगस्य प्रत्यासत्तित्वमावश्यकमेवेशि प्रव्यतत्समवेत प्रत्यक्षं महत्त्वस्य समवाय सामानाधिकरण्याभ्यां पृथग् नियामकत्वात् ।
ननु मम शरीरमित्यादिप्रतीत्यात्मनोऽतिरेकः सेत्यस्यतीति चेत् ? न उक्तलाघवबलेनेदृशप्रतीतेभ्रं मत्वकल्पनात्, श्यामोऽहं, | गोरोsहं, इत्यादिसामानाधिकरण्यानुभवाच । ननु तथापि भूतचतुष्कप्रकृतित्वेन शरीरस्य पृथिव्यादिभिन्नत्वात्पृथिव्यादिचतुष्टयमेव | तत्त्वमिति प्रतिज्ञासंन्यास इति चेत् ? न स्वाश्रयसमवेतत्वसम्बन्धेन गंधाभावस्य गन्धं प्रति प्रतिबन्धकत्वेन तस्य भूतचतुष्कप्रकृति - त्वायोगात् पार्थिवादिशरीरे जलादिधर्मस्येवीपाधिकत्वादिति दिग् । इत्थं च शरीरायतिरिक्तस्यात्मन एवासिद्धी कस्य नाम परलोकः कस्य वा मोक्ष इत्याहुः
15
( चार्वाकमतनिरसन उत्तरपक्षः )
तेऽतिपापीयांसः सर्वापलापित्वात् । तत्र यत्तावदुक्तं भूतचतुष्टयातिरिक्तमात्मादि वस्तु नास्त्येवानुपलब्धेरिति तत्र केयमनुपलब्धिः ? स्वभावानुपलब्धिर्वा ( १ ), व्यापकानुपलब्धिर्वा (२), कार्यानुपलब्धिर्वा (३), कारणानुपलब्धिर्वा (४), पूर्वचरानुपलब्धिर्वा (५), उत्तरवरानुपलब्धिर्वा ( ६ ), सहचरानुपलब्धिर्वा ( ७ ) ? तत्र न तावदाया, यतः स्वभावानुपलब्धिर्हि | उपलब्धिलक्षणप्राप्तस्य तत्स्वभावस्यानुपलंभो, भवति चैतादृशो मुंडभूतले घटादेरनुपलम्भो न तु पिशाचादेः, तस्योपलब्धिल| क्षणप्राप्तत्त्वाऽभावात् । न च सिद्ध्यसिद्धिभ्यां व्याघात, आरोप्ये तद्रूपनिषेधात् । न चादृश्यस्यापि दृश्यतयाऽऽरोप्य प्रतिषेधो युक्तः, आरोपयोग्यस्यैवाऽऽरोपसंभवात् । उपलंभकारण साकल्ये सति हि यदुपलभ्यते स एव दोषवशात् कचित्कदाचिदारोप्यते, तादृशस्तु घटादिरेव न तु पिशाचादिः । एकज्ञानसंसर्गिणि प्रदेशादी घटादेः प्रागनुभूयमानत्वात्, पिशाचादेरतथात्वादिति स्पष्टं स्याद्वादरत्नाकरे |
अथैवं स्तंभे पिशाचानुपलब्धिः कथं ? तत्रैकज्ञानसंसर्गितया पिशाचस्य पूर्वमननुभूतत्वेनाऽनारोप्यत्वात् इति चेत् ? न | योग्य सहकारिसंपन्नत्वपर्यन्तस्य विवक्षणादत्राऽधिकरणयोग्यताया एव नियामकत्वादिति विग् । इत्थं चात्मनि चक्षुरादिना स्वभावा|नुपलब्धिर्नास्त्येवाऽऽत्मनश्चक्षुराद्ययोग्यत्वात् । मनसा तूपलब्धिरैवास्ति वाढ, अहं सुखीत्यायनुभवस्य सार्वज- नीनत्वात् (१) ।
न द्वितीयतृतीये, व्यापककार्यज्ञानाद्युपलंभादेव । कारणाद्यनुपलंभस्तु कार्यपूर्वी त्तरनिषेधकत्वादात्मनश्चानीदृशत्वात् न बाधकः | | (२-३-४-५-६ ) | सहचरानुपलब्धिरपि नास्ति आत्मसहचराणां चेष्टादीनां बाढमुपलंभादेव । किं च परस्परसांकर्यस्याऽन्योन्याभावाऽनभ्युपगमे दु:परिहरत्वाद्भूतचतुष्टयमपि लोकायतिकेन कथंकारमुपपादनीयम् १ यदपि मदव्यक्तिबच्छरीरे ज्ञानोत्पादाभिधानं तदपि तुच्छ, प्रत्येकमपि क्रमुकादिष्वस्माभिर्मदशक्तेः स्वीकारात् त्वया पुनरनुमानापलापिना प्रत्येकं भूतेषु ज्ञानशक्तेः स्वीकर्त्तुमशक्यत्वात् ।
यदपि नव्य- चार्वाकमतानुयायिभिरूचे अवच्छेदकतयेत्यादिना, तत्तु नैयायिकैरेव पराकृतम् । तथाहि ज्ञानादे: प्रत्यक्षं तावत् | सार्वजनीनं तत्तु न चाक्षुषादिकं चक्षुराद्यव्यापारेऽपि जायमानत्वात् । न च मानसमेव, मनसोऽनुमानापलापेऽभ्युपगन्तुमशक्यत्वात् । अथ परामर्शजन्यज्ञानाभ्युपगमेऽपि तत्रानुमितित्वे मानाभावात् सर्वप्रमायाः प्रत्यक्षरूपत्वात्र प्रमाभेदाधीनः प्रमाणभेदः इति एतावदेवाभिमतमिति चेत् ? न 'वह्निव्याप्यधूमवान् पर्वतः ' एतादृशनिश्चयस्यैतदुत्तरदहनानुमितित्वस्य जन्यतावच्छेदकत्वेन धर्मविशेषसिद्धी धर्मिविशेषसिद्धेः । न चैतदुत्तरज्ञानत्वमेव तज्जन्यतावच्छेदकं, अप्रामाण्यज्ञानशून्यतादृशनिश्श्रयं विनापि तदवच्छिन्नसंदेहसंभवेन व्यभिचारात् । विशिष्टाऽन्यवहितोत्तरत्वदाने च गौरवात् ।

Page Navigation
1 ... 365 366 367 368 369 370