Book Title: Syadvadarahasya Part 2
Author(s): Yashovijay Upadhyay,
Publisher: Divya Darshan Trust
View full book text
________________
* लघुस्याद्वादरहस्य *
|तररूपत्वादिना स्वाश्रयसमवेतत्व संबन्धेन प्रतिबन्धकतावादिनोऽपि तुल्यत्वात् । जन्यरूपत्वावच्छिन्नं प्रति च रूपत्वेनैवाऽसमवायिकारणत्वं न तु नीलादौ नीलादे:, प्रयोजनाभावात् । न च प्राकृपक्षोक्तदोषाऽनतिवृत्तिः, संबंधाननुगमस्यादोषत्वात् । अन्यथा चाक्षुषत्वावच्छिन्नं प्रति चक्षुष्ट्वेनाऽपि कारणता न स्यात् संयोगादिप्रत्यासत्तीनामननुगमात् ।
इत्थं च नानारूपवदवयवारब्धे चित्ररूपसिद्धिर्निराबाधा | चित्रं प्रत्यपि प्रागुक्तदिशा नीलेतरपीतेतरत्वादिनैव हेतुतातो न कश्विदोष इति तु न्यायवादार्थेऽस्मटेककल्पनानिजृम्भितम् । विजातीयं चित्रं प्रति रूपविशिष्टरूपत्वेनैव हेतुत्वं वैशिष्ट्यं न | स्वविजातीयत्व - स्वसंचलितत्वोभयसम्बन्धेन । स्ववैजात्यं च चित्रत्वातिरिक्तं यत्स्यवृत्ति तद्भित्रधर्मसमवायित्वम्, स्वयंचलितत्वं च स्वसमवायिसमवेतद्रव्यसमवायिवृत्तित्वम् । विजातीयचित्रं प्रति च विजातीयतेजः संयोगत्वेन हेतुतेत्यपि कश्चित् । यतु नीलपीतोभयाभाव- पीतरक्तोभयाभावादीनां स्वसमवायिसमवेतत्व संबंधावच्छिन्नप्रतियोगिताकानां समवायानच्छित्रप्रतियोगिताकानां च विजातीयविजातीयपाकोभयाभावादीनां यावत्त्वावच्छिन्नप्रतियोगिताकाभाव एकत्रित्वावच्छिन्नं प्रति हेतुरिति तन्त्र, प्रतियोगिकोटावुदामानप्रवेशाऽप्रवेशाभ्यां विनिगमनाविरहात् । चित्रत्वावच्छिन्ने रूपत्वेनैव हेतुता, नीलपीतो| भयजन्यचित्रत्वाऽवांतरजात्यवच्छिन्ने नीलपीतोभयत्वेनैव, त्रितयारब्धे तत्त्रितयत्वेन हेतुता, नीलपीतोभयारब्धचित्रे च नीलपीतान्यत||रादीतररूपं प्रतिबन्धकमिति न त्रितयारब्धचित्रवति द्वितयारब्धचित्रापत्तिः, गौरवं तु प्रामाणिकत्वादिष्टमित्यन्ये । अत्र नीलतरनीलतमोभयत्वादिना तदुभयजन्यचित्र यपि च नीलतरनीलतमान्यतरेतररूपत्वादिना प्रतिबन्धकता तेन न नीलपीतोभयारब्धचित्रवति तदापत्तिरिति बोध्यम् ।
केचित्तु नानारूपवदवयवारब्धो घटो नीरूप एव । न चैवमप्रत्यक्षः स्यात्, द्रव्यतत्समवेतचाक्षुषसाधारण्येन चाक्षुपत्वावच्छिन्नं प्रत्येव स्वाश्रयसमवेतवृत्तित्वसम्बन्धेन रूपस्य कारणत्वात् । अत एव त्रुटिचाक्षुषानुरोधेन परमाणुयणुकयोरपि सिद्धिरित्याहुः । तचिंत्यम् - चित्रकपालिकास्थले तदसम्भवात् । किं न घटाकाशसं यांगायचाक्षुपत्वानुरोधाय चाक्षुषत्वावच्छिन्नं प्रति स्वाश्रयसमवेतत्व संबंधन रूपाभावस्य प्रतिबन्धकत्वकल्पनमेवोचितम् । स्वावच्छिन्नगुणाधिकरणतावत्प्रत्यक्ष संबंधेन पर्याप्तिमतः स्वाविच्छिन्नाधेयतावद्गुणप्रत्यक्षत्वसंबंधेन पर्याप्तिमत्त्वावच्छिन्नं प्रति हेतुत्वकल्पने ऽप्यव्यासज्यवृत्त्याकाशादिगुणाचाक्षुषत्वोपपत्तये रूपवत्त्वस्य प्रत्यासत्तिघटकत्वे गौरवात् । चचाक्षुपाभावस्यैवास्तु चाक्षुषं प्रति प्रतिबन्धकत्वं आश्रयाचाक्षुषत्वेनैव व्यणुकायचाक्षुषत्वोपपत्ती महत्त्वस्यापि प्रत्यासत्त्यघटकत्वे लाघवादिति वाच्यम् त्रुटिचाक्षुपानुरोधेन द्रव्यान्यत्वस्य प्रतिबध्यतावच्छेदककोटी दाने गौरवात् । लौकिक विषयतावच्छिन्नचाक्षुषाभावापेक्षया समवायसंबन्धावच्छिन्नरूपाभावस्य लघुत्वाच ।
अथैवं रूपायुत्पत्तिक्षणेऽपि रूपादेः प्रत्यक्षं कुतो नेति चेत् ? विषयाऽभावादिति गृहाण । रूपनाशक्षणे संयोगादिचाक्षुषं । तु न, शपथमात्रश्रद्धेयत्वात् । इत्थं न तादृशघटस्य नीरूपत्वे तादृशघटवृत्तिसंयोगादिचाक्षुषं न स्यात् । एतेन उद्भूतैकत्वस्यायोग्यव्यावृत्तधर्मविशेषस्य वा द्रव्यचाक्षुषकारणत्वेन रूपं विनाऽपि यदादिचाक्षुपत्वोपपादनेन तादृशघटस्य नीरूपत्वसमर्थनं - प्रत्याख्यातम् | त्रुटावेव विश्रामे वायो: स्पार्शनत्वे च स्पार्शनं प्रति स्पार्शनाभावस्य प्रतिबन्धकत्वं न तु स्पर्शाभावस्य त्रुटि - ! समवेत्तास्पार्शनानुरोधेन संयुक्तसमवायप्रत्यासत्तिमध्ये प्रकृष्टमहत्त्वस्य घटकत्वं गौरवात् । एवं च तादृशघटस्य निःस्पर्शले तु न क्षतिरिति ध्येयम् ।
-
-
एकदेशिनस्तु तत्र अव्याप्यवृत्तीनि नानारूपाण्येव । न चावच्छेदकतया नीलाद्यभावादिसामग्रीबलात्पीताद्यवयवावच्छेदेन | नीलाद्यापत्तिरवच्छेदकतया रूपत्वायवच्छिन्नाभावस्य तथात्वेऽपि नीलपीतावयवारब्धे पीतावयवावच्छेदेन पाके रक्तोत्पत्तिकाले सा कार्यसहभावेन तदभावात् । अवच्छेदकतया नीलादीकं प्रति समवायेन नीलादेः कारणताभ्युपगमाद्वा । नन्वेवं यदादावप्यवच्छेदकतया नीलाद्युत्पत्तिः स्यात्, सामग्रीसस्त्रादिति चेत् ? अत्र केचित् अवच्छेदकतया नीलादिकं प्रति समवायेनाज्ययवनीलत्वादिना द्रव्यविशिष्टनीलत्वादिना वा हेतुत्वमित्याहुः ।
अन्य तु - अवच्छेदकतया तद्वारणाय स्वाश्रयवृत्तिद्रव्यसमवायसंबन्धेनाऽवश्यकल्प्यहेतुताकस्य नीलाद्यभावस्यैव तादृशपदादाव| भावान्नावच्छेदकतया नीलाद्युत्पत्तिः । तद्रव्यत्वादिना हेतुत्वे तु मूर्त्तत्वादिना विनिगमनाविरहाद्बहु हेतुहेतुमद्भावाऽऽपत्तेरिति ध्येयम् । केचित्तु केवलनीलकपालादिष्ववच्छेदकतया नीलादिवारणायावयवान्तरवृत्तिनीलेतररूपादेः स्वसमवायिसमवेतद्रव्यसमवायसंबंधन हेतुत्वमभ्युपगच्छन्ति । तन्नेत्यन्ये । कपालांतरावच्छेदेन पाकाद्रक्तरूपोत्पत्तिकाले कपालांतरविद्यमानानीलादेरव्याप्यवृत्तिनीलाsनापत्तेः । रक्तोत्पत्त्यनंतरमेव तत्राऽव्याप्यवृत्तिनी लोत्पत्तिं स्वीकुर्वन्त्यपरं । नन्वेवमपि नानारूपवत्कपालाद्यारब्धे घंटे तत्क पालावच्छेदेन नीलाद्यापत्तिरिति चेत् ? नीलकपालिकावच्छिन्नतदवच्छेदेनेष्टत्वमेव तस्याः ।
यत्तु अवच्छेदकतया नीलादिकं प्रति समवायेन नीलादीनां न कारणत्वं किन्तु नीलेतररूपादीनामेव प्रतिबन्धकत्वमिति न तत् नीलाद्यवच्छेदकं किन्तु नीलकपालिकैव तादृशीति तत्तुच्छम् कपालानीलायचच्छेदिकायाः कपालिकाया घटनीलाय
13
-
-
-

Page Navigation
1 ... 363 364 365 366 367 368 369 370