Book Title: Syadvadarahasya Part 2
Author(s): Yashovijay Upadhyay, 
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 363
________________ * लघुस्यादादरहस्य * न, 'घटत्वेन पटो नास्तीति प्रतीतेरेव मानत्वात् । यत्किंचिद्धर्मावच्छिन्नप्रतियोगिताकत्वं यत्र तृतीयान्ताल्लभ्यते तत्र प्रकारीभूततद्धर्मावच्छित्रप्रतियोगिताकस्यैव व्युत्पत्तिबललभ्यत्वात् । कथमन्यथा घटत्वेन कम्बुग्रीवादिमानास्तीत्यादिप्रतीतेरपि प्रा. माण्यम् ? प्रत्यक्षे हि येन रूपेण प्रतियोगिनोऽनुपलम्भस्तद्धर्मावच्छिन्ना प्रतियोगिता संसर्गमर्यादया भासते तादृशधर्म एव च तृतीयान्तेनोल्लिख्यते इति । पटास्तित्वं च प्रदेशपुञ्जपरिणमनरूपं मार्त्तत्वेन न विरुद्धम् । न च समयकालस्याऽनवच्छेदकत्वाद् द्रव्यादिचतुष्टयबाधस्तत्र प्रतीतिबलात् स्वस्यैव स्वास्तित्वावच्छेदकत्वात् । ___ अध यदेव स्वरूपेणाऽस्तित्वं तदेव पररूपेण नास्तित्वणिति कामेव नावाप्रद रखिदियेत् । नननुन्मिलय, ग्रावत्वेन नास्तित्ववति पटादी किं मार्त्तत्वेनास्तित्वमुपलब्धवानसि ? मार्नत्वमार्त्तभिन्नत्वाभ्यामस्तित्वनास्तित्वयोस्तथाप्यद्वैतमेवोपलमे इति चेत् ? तत्किं तत्तन्निमित्तापेक्षाकृतविशेषं न ज्ञातवानसि ? साहजिकभेदयाचा तु पृधद्रव्ययोरेवोचिता । ___सामान्यविशेषात्मकत्वमपि, वस्तुनः सदृश-विसदृशपरिणनी अपेक्ष्य अनुवृत्ति-च्यावृत्तिप्रत्ययजननात् । न ह्येतदनुरोधेन तयोः पदार्थान्तरतास्वीकार उचितः । यतः सामान्य नित्यमेकमनेकसमवेतं च परैरभ्युपेयते, तदयुक्तं - अत्र मृत्पिडे घटत्वमासीदिति प्रतीत्या तस्यानित्यत्वसिद्धे। । एकत्वमप्यनित्यतया प्रतीयमानस्याऽस्य सदशपरिणतिरूपस्येच संग्रहनयार्पणया माजते। तथा (हि)अनेकसमवेतत्वमपि जातेयांवव्यक्तिवृत्तित्वरूप न संगच्छते, अतीताऽनागतव्यक्तिवृत्तित्वस्यैव दुरुपपादत्वादित्याहुः । अथ यथा भवन्मते एकस्य शब्दस्य सर्वार्थवाचकत्वं अतीतानागतव्यक्तिनिरूपितत्वस्य कादाचित्कत्वेऽपि तन्निरूपितवाचकताया एकत्वेन निर्वहति तथा ममापि तत्तव्यक्तिनिरूपितत्वस्य कादाचित्कत्वेऽपि तबिरूपितसमवायस्यैकतयाऽनेकसमवेतत्वं जातेनिर्वक्ष्यते इति चेत् ? न, समवायस्येवाविष्वम्भावातिरिक्तस्याऽसिद्धेः । एतेनाऽनेकवृत्तित्वं च स्वाश्रयान्योन्याभावसामानाधिकरण्यमिति वर्धमानवचनमप्यपास्तं, विशेषेऽतिव्याप्तितावस्थ्यवारणाय सामानाधिकरण्यस्य समवायगर्भवावश्यकत्वात् । किं च - अनुगतधीजनकत्वेन सिध्यत सामान्यमभावादिसाधारण्येनैव स्वीकमचितम् । अपि च क्वचिदखंडोपाधिस्वीकर्तुस्तब स्वामिप्रेतजात्या पलायितमेव । किञ्च - लाघवाद्व्यञ्जकत्वेनाऽभिमतानामुपाधीनामेव संग्रहनयार्पणयेकीभवतां तत्त्वकल्पनमुचितम्, अन्यथा प्रवृत्त्यादिजनकतावच्छेदकत्वेन कारणत्वादीनामप्यतिरेककल्पनाऽऽपत्तेः । ___अथैवमपि उर्ध्वतासामान्ये मानाभावों गदकुंडलादी कांचनत्वरूपतिर्यक्सामान्येनैव कांचनं कांचनमित्यनुगतप्रतीतेर्निवाहादिति चेत् ? न, यदेव कांचनमंगदीभूतं तदेव कुंडलीभूतमित्यादिप्रतीतीनामेकाकारत्वस्योर्ध्वतासामान्यं विनाऽनुपपत्तेः । यद्यपीदृशमूर्ध्वतासामान्यं चिरस्थायिनां गुणपर्यायाणामपि सम्भवति तथापि पूर्वापरपरिणामसाधारण द्रव्यमवंतासामान्यमित्यत्र द्रव्यपदं धर्मिपरमिति न कोऽपि दोपः । विशेषपदार्थस्वीकारोऽपि तेषां भेदकधर्मान्तराऽभाववत्तां परमाण्यादीनां नित्यद्रव्याणां परस्परं योगिभेदप्रत्यक्षानुपपत्तेः । सोऽप्यनुपपन्नस्तद्गुणेष्वपि तत्स्वीकाराऽऽपत्तेः । अथ तत्र शुक्लतरत्वाद्यवांतरजातयः स्वीक्रियन्ते, परमाणी त्वन्त्यकार्याऽवत्तिन्यस्ताः स्वीकर्तुं न शक्यन्ते इति चेत् ? तथाप्यवांतरजातीयेष्वपि रूपादौ परस्परच्यावृत्तिः किमधीना ? स्वाश्रयाश्रितत्वसम्बन्धविशेषाधीना चेत् ? तर्हि स विशेषो गुणनिष्ठ एव कल्प्यतां, परमाणी परस्परव्यावृत्तिस्तु स्याश्रयसमवायित्वसम्बन्धेन विशेषाधीनत्यत्र किं विनिगमक ? गणानां बहत्वात् तत्रानन्तविशेपकल्पनायां गौरवमेव चिनिगमकमिति चेत् ? तथापि प्रत्येक विनिगमनाविरहः कुत्र लीन: ? रूप एव विशेषः कल्प्यते पृथिवीपरमाणुरूपाणां पाकादिनच विशेषः, तत्र विशेषाकल्पनलाघवादित्यप्याहुः । किश्च - तादृशविशेषाणामपि भेदः कुतः ? स्वत एवेनि चेत् ? तर्हि तदाश्रयाणामपि स्वत एवायमास्थीयतामन्ततस्तत्तद्वयक्तित्वादीनामपि भेदकत्वसम्भवात्, प्रतिद्रव्यमनंतागुरुलघुपर्यायाणां विलक्षणानां सिद्धांतसिद्धत्वाच । अभिलाप्यत्वाऽनभिलाप्यत्वे अपि न विरुद्धे । दृष्ट हि घटस्य यथा घटपदापेक्षयाऽभिलाप्यत्वं तथा पटपदापेक्षयाऽनमिलाप्यत्वमपीति । नन्वभिलाप्यभावापेक्षयाऽनंतगुणिता अनभिलाप्या भावा भवद्भिरूपेयन्ते - यदक्तं बृहत्कल्पवृनी "पनवणिज्ज". ति' । तेष्वेवेदमन्पपन्नमिति चेत ? न, तस्याऽनभिलाप्यपदेनवाऽभिलाप्यत्वात् ।। ननु किमिदमभिलाप्यत्वं न तावत्पदजन्यबोधविषयत्वं, तदविषयेऽपि कचिद् घटादावभावात् । नाऽपि तद्बोध्यतावच्छेदकरूपवत्वं, घटस्याऽपि पटपदामिलाप्यत्वापत्तेः, पकस्यापि पदस्य सर्वार्थवाचकत्वात् । नापि गृहीततत्तदर्थनिरूपितसंकेतकपदबोध्यतावच्छेदकरूपवत्वं तत, पटपदस्यापि यटे संकेतग्रहसंभवात्तदोषाऽनतिवृत्तेः । अत एव न तत्तदर्थस्वरूपपरिणामपरिणतपदबोध्यतावच्छेदकरूपवत्वमिति चेत् ? मैवं, गृहीततत्तदर्थनिरूपित-नियंत्रित-संकेतकपदवोध्यतावच्छेदकरूपवत्स हि घटपदस्यैव कोशादिना संकेतो नियम्यते न तु पटपदस्पेति नातिप्रसंगः । अत एव श्रुतज्ञानाविषयीभूतानामर्थानां प्राति१. पनवगिना भावा अणंतभागो उ अभिलणाणं" । = 'प्रज्ञापनीया; भावा अनंतभागस्त्वनमिलाप्पानाम् ।

Loading...

Page Navigation
1 ... 361 362 363 364 365 366 367 368 369 370