Book Title: Syadvadarahasya Part 2
Author(s): Yashovijay Upadhyay, 
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 361
________________ *लघुस्याद्वादरहस्य * कारणतावच्छेदकांतर्गतकतिपयभागानां सम्बन्धविधया निवेशाऽनिवेशाभ्यां तदोषात्, स्वावच्छेदकावच्छिन्नेत्यादिसंबंधेन तत्र तमःसंयोगस्य प्रतिबन्धकत्वकल्पनाया अप्यबकाशाच । पेचकादिचाक्षुषे व्यभिचार सर्वत्र साधारणदृषणम् । न च नरचाक्षुषं प्रत्येव तस्य कारणता, अञ्जनादिसंस्कृतचक्षुषां तस्करादीनां चाक्षुषे तथापि व्यभिचारात् । न च स्वभाविकनरचाक्षुषलग कार्यतालच्छेदकलाबायं दोषः, स्वाभाविकत्वस्यालोकसंस्कृतचक्षुर्जन्यत्वरूपस्यालोककारणतापरिचयं विनाऽपरिचयात्, अन्यस्य दुर्वचत्वात् । अथाऽअनाद्यसंस्कृतचक्षुर्जन्यत्वं तदिति चेत् ? न, आदिपदार्थाननुगमेन कार्यतावच्छेदकाऽननुगमात् । नाप्यालोकेतराऽसंस्कृतचक्षुर्जन्यत्वं तत्, आलोकेतरस्याञ्जनावेळभिचारेण चाक्षुषाऽजनकत्वेन चक्षुरसंस्कारकत्वात् । अंजनायभावकालीनचाक्षुषं प्रत्यंजनादीनां जनकत्वे चालोकाभावाऽकालीनचाक्षुषत्वमात्रस्यालोकसंयोगकार्यतावच्छेदकौचित्यात् । एवमपि सिद्धं नः समीहितमिति चेत् ? न, तदपेक्षया लाघवेन तमःसंयुक्तान्यचाक्षुपत्वस्यैव तत्रौचित्येन तमसो द्रव्यवसिद्धेः, पूर्वोक्तमत्पथि लाघवतर्कस्य सर्वातिशायित्वाच । यत्तु फलबलात्तत्रालोकविशेषः कल्प्यते, व्यभिचारग्रहे सत्यालोकस्य कारणताग्रहस्यैवानुपपत्तेः । कथमेवमिति चेत् ? न, तदवच्छेदेन व्यभिचारग्रहस्यैव तत्सामानाधिकरण्येनापि कारणताग्रहप्रतिबन्धकत्वात्, अत्र चालोकत्वसामानाधिकरण्येनैव तद्ग्रहे तत्सामानाधिकरण्येन कारणताग्रहस्य निरपायत्वात्, अन्यथा कचित्प्रथममतिप्रसक्तेनापि धर्मेण कारणताग्रहोत्तरं पश्चादनुगताबच्छेदकधर्मकल्पनासिद्धांतच्याकोपाऽऽपत्तेरिति, तन्न, तदालोकेनान्येपामपि चाक्षुषापत्ते(रित्वात् । अनन्तप्रतिनियतसंस्कारकताकल्पने च महद्दीरवादिति दिग । एतेन "द्रव्यचाक्षुषसामान्य प्रत्यालोकसंयोगकारणतायाः क्लप्तत्वादालोक बिना वीक्ष्यमाणस्य तमसः कथं द्रव्यत्वं" इत्यपि दरमपास्तम् ।। तीतरतिककदशिनस्तु - द्रव्यचाक्षुपं प्रत्यालोकसंयोगस्य हेतुत्वेऽपि तामसेन्द्रियेणैव तमोग्रहसम्भवानानुपपत्तिः । न च मीलितचक्षुषोऽपि तद्ग्रहापत्तिः, चक्षुःश्वश्रोत्रवत्तस्य चक्षुर्गोलकाधिष्ठानत्वात् । न च तव्यस्थापकगुणाभावात्तादृशेन्द्रियाऽसिद्धिः, गुणत्वस्य व्यवस्थापकतायामतन्त्रत्वात्, इन्द्रियान्तराग्राह्यग्राहकतामात्रस्य प्रकृतेऽपि सत्रात् । न च पेचकादीनां दिवापि घटादि. ग्रहापत्तिः, तामसेन्द्रिये तमःसंयोगस्यापि सहकारित्वात् । न च तमसि तमःसंयोगासंभवगे गगनतमःसंयोगस्यैव जागरूकत्वात् । नन्वेवमपि किश्चिदवच्छेदेन तमःसंयोगवति भित्त्यादावालोकसंयुक्तेऽपि तामसेन्द्रियेण प्रतीतिः स्यादिति चेत् ? तर्हि तमःसंयोगावच्छेदकावच्छिन्नतामसेन्द्रियसंयोगस्यैव तद्ग्रहहेतुत्वमस्तु, विनिगमनाविरहस्तु तवापि तुल्यः । चन्द्रिकायां पेचकादेस्तु | चाक्षुषमैवाऽभ्युपेयम् । न च दिवाऽपि तद्ग्रहाऽऽपत्तिः, फलबलात्सौरालोकस्य तत्प्रतिबन्धकत्वकल्पनादित्याहुः । तत्तुच्छम्, तमः पश्यामीति प्रतीतेनिरालम्बनत्वापत्तेः । अथ पश्यामीति विषयता न्यायनये चक्षुःसंनिकर्षदोषविशेषयोरिव मन्मते तामसेन्द्रियसंनिकर्षस्यापि नियम्या, अव्यवहितोत्तरत्वस्य कार्यतावच्छेदककोटी दानेन ज्यभिचाराऽप्रचारादिति चेत् ? न, तथापि तामसेन्द्रियेण तमस इब घटादीनामपि, पेचकादीनामिव नराणामपि ज्ञानाऽऽपत्तेः । न च नरतामसेन्द्रियजन्यज्ञानं प्रति तादात्म्येन तमसस्तमस्त्वादेव कारणत्वं, अंजनादिसंस्कृतचक्षुषां तस्करादीनां तु बहलतमे तमसि घटादीनां न ताम|| सेन्द्रियजन्यं ज्ञानं किन्तु चाक्षुषमेव । न चालोकं विना कथं तदानीं तेषां तचाक्षुषमिति वाच्यम्, आलोकस्येवाअनादेरपि चाक्षुषे चक्षुषः पृथक् सहकारित्वात् ।। ___अञ्जनादिसंस्कृतचक्षुप एवालोकाजन्यचाक्षुषे हेतुत्वादंजनादेहेतुतावच्छेदकत्वमेवेत्यपि कश्चित् । तन्न, अंजनावभावाकालीन. चाक्षुषं प्रति स्वसंस्कृतचक्षुःसंयोगसम्बन्धेनाञ्जनादेरेव हेतुत्वीचित्यादित्यपरे । वस्तुतः सामान्यतः एका चाक्षुषजननी योग्यताऽपरा च तमःसंयुक्तचाक्षुषजननी । तत्र पेचकादीनां दिवा न चाक्षुपं मानवानां च नक्तं न घटादिचाक्षुषमित्यत्र स्वभाव एव शरणम् ।। न चैवं स्वभाववादिमतप्रवेशः समवायाऽभ्युपगमे तदप्रवेशात, 'बहिरिन्द्रियज्ञाने उपनीतस्य विशेषणत्वमेव, मानसे तु विशेष्यत्व मपि', इत्यादी परस्यापि स्वभावस्याश्रयणीयत्वात् । सर्वज्ञानस्वभावावगमे तत्तत्पुरुषतत्तद्देशतत्तत्कालतनविषयायाश्रित्य विचित्रज्ञानावरणक्षयोपशमवशाद्विचित्रज्ञानदर्शने को बा बिस्मयः स्यावादाऽऽस्वादसुंदरधियाम् ? किश्च तमसोऽभावत्वे विधिमुखप्रत्ययो न प्रादास्यात् । न च ध्वंसादिवदुपपत्तिस्तथापि घटस्य ध्वंस इतिवदालोकस्य तमः इति प्रत्ययापत्तेः । न चालोकाभाव एव संकेतितस्तमःशब्दः इति न तदापत्तिस्तथापि करिकलभेत्यादिवत्तत्प्रयोगस्य साधुत्वापत्तेः । किञ्च, अंधतमसावतमसाद्युत्कोऽपकर्षदर्शनादपि तस्य द्रव्यत्वं, महदुद्भुताऽनभिभूतरूपवद्यावत्तेजोऽभावत्वकतिपयतदभावत्वयोरज्ञानेऽपि तदुव्यवहारात् । इत्थं च तमचलतीत्यादि प्रत्यक्षमपि तद्रव्यत्वसाक्षि । न च स्वाभाविकगतेरन्यगत्यनुविधानानुपपत्तिः, पद्मरागप्रभायामेवाश्रयचलनानुविधानदर्शनात् । पद्मरागचलनं विनापि कुड्यावरणविगमादिनापि तत्प्रभाचलनमुपलब्यमिति चेत् । तर्हि स्थिरेऽपि स्तम्भादौ प्राक पश्चात् दीपसम्बन्धादिना तमश्चलनोपलंभः किं काकेन भक्षितः! !! १. पेचको . धूकः, तदुक्तं श्रीहेमरिपूज्यैः, "के निशाटः काकारि: कौशिकोलूपेचका: श्लो. १३२४ अभि• चिन्तामणि ||

Loading...

Page Navigation
1 ... 359 360 361 362 363 364 365 366 367 368 369 370