Book Title: Syadvadarahasya Part 2
Author(s): Yashovijay Upadhyay, 
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 359
________________ * लघुस्याद्वादरहस्य * अथैवमपि द्रव्यकर्मरूपार्थक्रियाकारित्वमात्मनः कथमिति चेत् ? निमित्तीभूतभावकर्मकर्तृत्वेनोपचारादिति गृहाण । एवं घटादिकर्तृत्वमप्यात्मनः उपचारादेव बोध्यम्, प्राप्यत्वगर्भकर्मत्वस्य परिणामविशेष एव पर्यवसानात् । न हि क्रियाजन्यफलशालिवादिकं पराभिमतं कर्मत्वमपि सार्वत्रिक, घटं जानातीत्यादावेव तदभावात । एतेनाऽर्थक्रियेत्यत्र प्रत्याख्यातः । युगपतपक्षे तु प्रत्यक्षराधः । एकान्ताऽनित्यपक्षेऽपि दोषमभिदधाति “एकान्ताऽनित्यपक्षेऽपि" इति - क्रमाक्रमयोरसम्भवप्रतीतिबाधाभ्यामिति भावः ||४|| अथैकान्तवादोपकम्पितकर्कशतरतर्कतिमिरनिकरनिराकरणेन प्रकटीभूतप्रतापं भास्वतमनेकान्तबादमभिनन्दन्ति - 'यदा विति यदा तु नित्यानित्यत्वरूपता बस्तुनो भवेत् । पथात्य भगवन्नैव तदा दोषोऽस्ति कश्चन ॥५॥ नन् परेऽपि पृथिव्यादीन्यपि परमाणुरूपाणि नित्यान्यन्यानि अनित्यानि प्रतिजानत इति को विवादोऽतः प्रा ||ति । भगवान् हि घटादिकमप्येकं बस्तु 'स्यानित्यं१, २स्यादनित्यं, ३स्यानित्यानित्यं, ४स्यादवक्तव्यं, ५स्यानित्यमवक्तव्यं, स्यादनित्यमवक्तव्यं६, ७स्याभिस्याऽनित्यश्वाऽवक्तव्यश्चेति प्रकाशयति न तथा परे स्वप्नेऽपि संविद्रत इति भावः ।। इदमिदानीं निरूप्यते । सर्वत्र हि वस्तुनि स्यानित्यत्वादयः सप्त धर्माः प्रत्यक्षं प्रतीयन्ते । तथाहि - घटो द्रव्यत्वेन नित्यः, पर्यायत्वेनानित्यः, क्रमिक विधिनिषेधार्पणासहकारेण स्यानित्यानित्योऽपि प्रतीयते । न च समुदिताभ्यां नित्यत्वाऽनित्यत्वाभ्यामेव तनिर्वाहाद्धर्मान्तरकल्पनं किमर्थकमिति वाच्यं, समुदितयोस्तयोविलक्षणत्वेनैतत्स्थानाऽभिषेचनीयत्वात्। न चात्र प्रत्यक्षे इच्छायाः कथं नियामकत्वं, प्रतीतिबलादेतादृशेच्छाविशिष्टबोधं प्रत्येतादृशेच्छायाः कारणत्वकल्पनात् । युगपदुभयाऽर्पणासहकारेण स्यादवक्तव्योऽपि न तु सर्वथा, अवक्तव्यपदेनाऽप्यवक्तव्यत्वापत्तेः । न चाऽवक्तव्यत्वं शब्दाञ्चोध्यत्वरूपं कथं योग्यमिति वाच्यम्, उपदेशसहकारेण पद्मरागादिवत्तद्ग्रहात् । नित्यत्वस्यात्र क उपकार इतिचेदवक्तव्यत्वेन परिणमनमित्येव गृहाण । वक्तव्यत्वेन परिणमनं तु नित्यत्वादिविशेऐणैव विश्राम्यतीति न तदतिरेकावकाशः । क्रमाक्रमाभ्यां विध्युभयकल्पनासहकारेण स्यानित्यः स्यादवक्तव्यः । ताभ्यां निषेधोभयकल्पनासहकारेण स्यादनित्यः स्यादवक्तब्यश्च । ताभ्यामुभयकल्पनासहकारेण च स्यानित्यः, स्यादनित्यः, स्यादवक्तव्यश्च । अत्रापि समुदायपक्षाऽऽशंका प्राग्वत् समाधातव्या । न च विशेषण-विशेष्यभावे विनिगमनाविरहा, नथाप्येतत्कृतपरिणत्यनतिरेकात् । नित्यानित्यत्वादयो जात्यन्तररूपा इत्यप्याहुः । अत एव अमूनबलम्ब्य सर्वत्र सप्तभंगी संगतिमंगति । ____ अथ केयं सप्तभंगीति चेत् ? एकत्र वस्तुन्येककधर्मपर्यनुयोगवशादविरोधेन व्यस्तयोः समस्तयोत्र विधिनिषेधयोः कल्पनया स्यात्कारातिसप्तधा वाक्प्रयोगः सप्तभंगी'ति सूत्रम् । (प्रमाणनयतत्त्वालोक-परिच्छेद-४ सूत्र १४) यः खलु प्रागुपदर्शितान् वस्तुनः सप्त धर्मानवलम्ब्य संशेते, जिज्ञासते, पर्यनुयुक्ते च तं प्रतीयं फलवती, प्रश्नस्य तुल्योत्तरनिवर्त्यत्वात् । यथा च सामान्यतः शब्दः सर्ववाचकोऽपि संकेत विशेष सहकृत्याऽन्वयं बोधयति तथेयमप्यर्पणाविशेषसहकृत्वरी सतीति । शाब्दे । इच्छाऽनियामकत्वबचो मोघम् । सप्तभंगीविनिर्मुक्तशब्दभात्रस्याऽवोधकत्वं तु नाऽऽशंक्य, विधिप्रतिषेधाभ्यां स्वार्थमभिदधान || इत्यनेनाऽर्पणाविशेषस्थल एवं तदनुवर्तनाऽभिधानात् । ___ अत्र च स्यान्नित्यत्वादिषु सप्तभंगेषु एवकारोऽवधारणार्थकोऽन्यथाऽनुस्तसमत्वापातात् । स्यात् पदं तु तत्र तदवच्छेदकरूपपरिचायकं, || तदपरिचये सांकर्यापातात् । सेयं सकलादेशस्वभावा, विकलादेशस्वभावा च । तत्र प्रमाणप्रतिपन्नानंतधर्मात्मकवस्तुनः १कालादिभिरभेदवृत्तिप्राधान्यादभेदोपचाराद्वा योगपद्येन प्रतिपादकं वचः सकलादेशः (प्रमाणनयः परिः ४ सू० ५४) । तदन्यो विकलादेशः । नित्यत्वादीनां कालादिभिरभेदे हि एकेनाऽपि शब्देनेकधर्मप्रत्यायनमुखेनाऽनेकथर्मरूपस्य तदात्मकतापत्रस्य वस्तुनः प्रतिपादनसम्भवात् योगपद्यम् । भेदविवक्षायां तु २सकृदुचरितेत्यादिन्यायादेकशब्दस्याऽनेकार्थानां युगपदबोधकत्वात् क्रमः । अथ सकृदचरितेत्यादिन्यायस्य प्रामाणिकत्वे एकशिष्टघटादिपदस्यानेकयटादिवोधकत्वं न स्यात् । न स्याच कस्मादपि घटपदात् प्रातीतिको घट-घटत्वयोरपि बोधः इति चेत् ? न, अग्रिमसकृत्पदस्यैकधर्मावच्छिन्नार्थकत्वात् । एकशेषस्थले तु पदान्तरस्मरणमेव कल्प्यमन्यथा घटपदात समवायकालिकविशेषणताभ्यां घटत्वाऽवच्छिन्नयोर्युगपद्रोधप्रसक्तिभिया तद्धर्मावच्छिन्नस्य सम्बन्धावच्छिन्नत्वगर्भत्वावश्यकतया विषयिता-समवायाभ्यां गुणत्वबोधकैकशिष्टतदादिपदाभयप्रतीतिर्न । । एकपदस्यैकस्मिन् काले एकसम्बन्धावच्छिकधर्मप्रकारतानिरूपितविशेष्यताशालिबोधोपधायकत्वमिति निष्कर्षः । तेन नैकपदस्य वस्तुतो नानाधर्मावच्छिन्नार्थबोधकत्वेऽपि क्षतिरिति ध्येयम् । धर्मे एकत्वञ्च याचबोध्यवृत्तित्वादिकम् । १. के पुन कालादयः ? कालः, आत्मरूपम्, अर्थः, सम्बन्ध, उपकारः, मुणिदेशः, संसर्ग, दाद इत्यष्टाविति रत्नाकरावनारिकापाम् । २. सकृदुपरितः शाब्दः सकृदेवाऽथ गभयतीति न्यायात ।

Loading...

Page Navigation
1 ... 357 358 359 360 361 362 363 364 365 366 367 368 369 370