Book Title: Syadvadarahasya Part 2
Author(s): Yashovijay Upadhyay,
Publisher: Divya Darshan Trust
View full book text
________________
6 मध्यमस्याद्वा रहस्ये खण्डः २
* लघुस्याद्वादरहस्य
कार्यत्वमात्भत्वावच्छेदेनैव गायन्ति । नन्वेवमात्मनः कार्यत्वव्यवहारः स्यान तु ज्ञानादेः, तस्याऽनीदृशत्वात् इति चेत् ? न द्रव्यकार्यत्वस्यैवै तल्लक्षणत्वात् । पर्यायकार्यत्वस्य तु ध्वंसप्रतियोगित्वमेव लक्षणम् । अत एव द्रव्यस्य हि पूर्वाकारपरित्यागेनोत्तराकारपरिणामः कार्यत्वमित्येव रत्नाकरावतारिकायामभिहितम् । ध्वंसप्रतियोगितानवच्छेदकरूपवत्त्वस्य नित्यत्वे तदनवच्छेदकरूपवत्त्वमेवोभयानुगतं कार्यत्वमित्यभिप्रेत्य तु प्रागुपदर्शितः पन्थाः । ध्वंसस्यापि किञ्चिदुत्पत्तिरूपत्वात्तद्ध्वंससंभवान्नाऽव्याप्तिः । | घटादिनाशस्य कालविशेषविशिष्टकपालत्वादिनयेऽपि कपालत्वादिना तन्नाशसंभवोऽनन्यथासिद्धनियतो त्तरवर्त्तितावच्छेदकरूपवत्त्वे वा तात्पर्यमिति ध्येयम् ।
अथाऽनित्यत्वपक्षेsपि दोषमाहुः - “एकान्तानित्यरूपेऽपि " इति निगदसिद्धमिदम् । अयं भावः - एकान्तानित्यस्यापि सतः आत्मनः सुखदुःखयोर्युगपद्धोगो विरुद्धत्वादेव नेष्टः । क्रमभोगे तु क्षणिकत्वहानि:, तत्तत्क्षण साधिकरणसमयस्यैव क्रमपदार्थत्वात्, क्षणिकस्य तु तदसंभवादिति ।
M
हेमसूरिगिरां गुम्फे, यस्यास्ति परमा गतिः । द्वितीयानुष्टुभो व्याख्यां स यशोविजयोतनोत् ||२|| श्री अथोभयोः पक्षयोर्दूषणांतरमुभाभ्याममनुष्टुभ्यामाहुः 'पुण्यपाप' इति
पुण्यपापे बन्धमोक्षी, न नित्यैकान्तदर्शने । पुण्यपापे बन्धमोक्षी, नाऽनित्यैकान्तदर्शने ॥३॥ क्रमाक्रमाभ्यां नित्यानां युज्यतेऽर्थक्रिया न हि 1 एकान्तक्षणिकत्वेऽपि युज्यतेऽर्थक्रिया न हि ॥४॥
एकान्तनित्यात्मवादिमते पुण्यपापयोरसम्भवः । ते हि " यागब्रह्महत्यादीनां क्षिप्रभंगुराणां स्वर्ग नरकादिकं प्रति श्रुतिबोधितकारणतायाः फलपर्यन्तच्या पारव्याप्ततया तंत्र व्यापारस्य चान्यस्यासंभवात् परिशेषाददृष्टसिद्धिः । न च ध्वंसेनैव निर्वाहस्तस्य फलाsनाश्यत्वात् । न चाऽपूर्वस्यापि प्रथमस्वर्गादिना नाशात् फलसन्तानो न निर्वहेत् इति वाच्यम्, तस्य चरमफलनाश्यत्वात् । चरमत्वं च स्वसमानजातीयप्रागभावाऽसमानकालीनत्वादिकं जातिविशेषो वा । न चाऽपूर्वोत्पत्त्यनन्तरमेव फलं कुतो न भवतीति वाच्यम्, वृत्तिलाभकालस्यापि नियामकत्वात् । अथ निर्व्यापारस्यैव यागादेरव्यवहितत्वांशविनिर्मुक्तकारण'ताग्रहः सम्भवतीति चेत् न, अव्यवहितपूर्व समयावच्छेदेन कार्यवति यदभावो ज्ञायते तत्रैव कारणताबुद्ध्यनुदयेन तद्गर्भायाः कारणताया औचित्यात् कीर्त्तनादिनाश्यत्वेनाऽपूर्वसिद्धेश्व ।
तचादृष्टमात्मनो गुणरूपं विहितनिषिद्धक्रियाजन्यमित्याहुः । तच्चाऽयुक्तम् स्वभावभेदेनैवात्मना धर्माधर्मयोर्जनने एकान्तनित्यतापक्षक्षतेः । वस्तुतः शुभाशुभोपयोगावेव धर्माधर्मी, तदुपनीतप्रकृतिविशेषाऽबाधाकालपरिपाकाच्च फलोदय इति दिग् । अत एव बन्धमोक्षयोरपि कर्मादानसकलकर्मविप्रमोक्षलक्षणयोस्तत्पक्षेऽसम्भवः । एवमेकान्ताऽनित्येत्यादिना क्षणिकत्वपक्षेऽपि दोषो विभावनीयः ॥ ३॥
-
-
=
=
क्रमाक्रमाभ्यामिति अप्रच्युताऽनुत्पन्नस्थिरेकरूपाणां हि क्रमेण युगपद्वाऽर्थक्रियाकारित्वं न घटमटाटूयते । तथाहि अर्थस्य घटादेः, क्रिया ज्ञानादिरूपा, तत्कारित्वं-तज्जनकत्वम्, सर्वथा नित्यानामात्मादीनां देशक्रमेण कालक्रमेण वा न सम्भवति, यत्किञ्चिद्देशकालावच्छेदेनैव सकलकार्यकरणसामर्थ्यात् । अन्यथा देशकालभेदेन स्वभावभेदादनित्यत्वापातात् । अथात्मादीनामर्थक्रियाकारित्वेऽपि सर्वत्र सर्वदेत्यापादकाऽभावस्तत्स्वभाववतां देशकालादीनां विलम्बाच कार्यबिलम्ब इति चेत् ? न, तत्तद्देशप्रतिबद्धेतरकालत्वेन तत्तत्कालप्रतिबद्धेतरदेशत्वेन च कारणताया अध्यात्ममतपरीक्षायां प्रदर्शितत्वात् । एवं च ततदेशकालावच्छेदेन स्वभावभेदे सर्वथा नित्यत्वापायात् ।
स्यादेतत् एवं सति घटादीनां कारणता न स्यात् । मैवं विनिगमनाविरहेण तेषामपि तत्सम्भवात् । न चैवं गौरवं, प्रतीतिसिद्धस्वभावस्यैवमेव कल्पनात् । किञ्च कारणकालापमेलकस्य कार्योपधायकत्वेऽपि तस्यापि वैचित्र्यात् स्वभावाऽवैचित्र्ये का प्रत्याशा ? तस्मात् स्वभावाऽवैचित्र्येऽप्यन्यादृशं नित्यत्वमेव तत्रास्तीति स्वाग्रहमेव गृहाण । तमेव गृह्णामीति चेत् ? पथः स्मर, मोचितोऽसि ततः प्राक् ।
अथ पूर्वपूर्वपरिणामानामेवोत्तरोत्तरपरिणामजननस्वभावत्वादात्मनः कूटस्थनित्यत्वमेवोचितमिति चेत् ? न तस्य तदभेदेनैव कर्तृत्वात् । अत एबैकस्य षट्कारकी भावोऽन्यत्र प्रासाधि । अथ नित्यचेतनास्वभावत्वरूपार्थक्रियाकारित्वादात्मनः कूटस्थनित्यत्वमेवोचितमनित्यचेतनायास्तु प्रधानसाध्यत्वमिति चेत् ? न, चेतनायाः स्वतो नित्यत्वात् पर्यायतोऽनित्यत्वस्यैतदपक्षपातित्वात् । ज्ञानकर्मफलरूपाया: स्वतन्त्रप्राप्यत्वेन कर्मीभूतायाश्चेतनायास्तत्तदुपयोगपरिणतेन स्वतंत्रतयाऽऽत्मनैव कर्त्रा सम्भवात्, प्रधाने
मानाऽभावात् ।

Page Navigation
1 ... 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370